द्रवणम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्रवणम्, क्ली, (द्रु + भावे ल्युट् ।) गमनम् । (यथा, हरिवंशे । १९६ । ३९ । “ते रुदन्तो द्रवन्तश्च भगवन्तं पितामहम् । रोदनाद्द्रवणात् चैव ततो रुद्रा इति स्मृताः ॥”) क्षरणम् । अनुतापः ॥ द्रुधातोर्भावेऽनट् ॥
