द्रवत्वम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्रवत्वम्, क्ली, (द्रव + त्व ।) द्रवस्य भावः । तद्द्वि- विधम् । यथा, -- “सांसिद्धिकं द्रवत्वं स्यात् नैमित्तिकमुदाहृतम् । सांसिद्धिकन्तु सलिले द्बितीयं क्षितितेजसोः ॥ परमाणौ जले नित्यमन्यतोऽनित्यमुच्यते । नैमित्तिकं वह्नियोगात्तपनीयघृतादिषु ॥ द्रवत्वं स्यन्दने हेतुर्निमित्तं संग्रहे तु तत् ॥” इति भाषापरिच्छेदः ॥
