सामग्री पर जाएँ

द्रविणोदाः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्रविणोदाः, [स्] पुं, अग्निः । अस्य निरुक्ति- र्यथा, -- “द्रविणं बलमित्युक्तं धनञ्च द्रविणं ततः । ददाति तद्भवानेन द्रविणोदास्ततो भव ॥” इति वराहपुराणम् ॥ (धनप्रदे, त्रि । यथा, ऋग्वेदे । १ । १५ । ७ । “द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ॥” “कीदृशं देवं द्रविणोदाः धनप्रदम् । यद्बा, धन- प्रदोऽग्निः सोमं पिबत्विति शेषः । तमेतं मन्त्रं यास्क एवं निर्वक्ति, -- द्रविणोदाः कस्मात् धनं द्रविणमुच्यते यदेनदभिद्रवन्ति बलं वा द्रविणं यदेनेनाभिद्रवन्ति तस्य दाता द्रविणोदास्तस्यैषा भवति द्रविणोदा द्रविण स इत्यादि सोऽयं यास्कोक्तो निर्व्वचनप्रपञ्चः तस्मिन्नेव ग्रन्थेऽव गन्तव्यः । द्रविणोदाः द्रुदक्षिभ्यामिनन् नित्त्वा- दाद्युदात्तोद्रविणशब्दः तद्ददातीति द्रविणोदाः । क्विप्चेति क्विप् । पूर्ब्बपदस्य सकारोपजनश्छान्दसः । रुत्वोत्वे । कृदुत्तरपदप्रकृतिस्वरत्वम् । देवविशे- षणत्वेनैकवाक्यतापक्षे द्वितीयायाः सुस्वादेशः । अथवा द्रविणमात्मन इच्छन्ति द्रविणस्यन्ति । सुप आत्मनः क्यच् सर्व्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्य इति क्यचि परतः सुगागमः द्रविण- स्यतेः सम्पदादित्वाद्भावे क्विप् । अतो लोपः । क्वौलुप्तं न स्थानिवद्भवतीति तस्य स्यानिवत्त्व- प्रतिषेधाद्यलोपः एवंद्रविणस् शब्दो धनेच्छा- वचनः । द्रविणेच्छान्दस्यति यथेष्टधनप्रदाने- नोपक्षयतीत्यर्थे तसु उपक्षये इत्यस्मादन्तर्भावि- तण्यर्थात् क्विप्चेति क्विप् । एवं द्रविणोदःशब्दः सकारान्तो भवति । तथा द्राविणोदसाः प्रवादा भवन्तीतिनैरुक्तो व्यवहार उपपद्यते अतो- द्रविणोदस्शब्दः भिन्नवाक्यत्वे स्वार्थे प्रथमा । एकवाक्यत्वे तु व्यत्ययेन द्वितीयार्थो भवति द्रविणस इत्यत्रापि वाक्यभेदपक्षे द्रविणसः सोम- स्येत्यर्थे सकारोपजनश्छान्दसः । आद्युदात्तत्वन्तु नियमेन स्थितम् । ऋत्विग्विशेषणत्वेनैकवाक्यत्व- पक्षेतु क्यजन्तात् क्विप् । अतो लोपादिपूर्ब्बवत् । अत्र तु पक्षे क्यचश्चित्त्वेनान्तोदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तम् ॥” इति सायनः ॥)

"https://sa.wiktionary.org/w/index.php?title=द्रविणोदाः&oldid=141683" इत्यस्माद् प्रतिप्राप्तम्