द्रावकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्रावकः, पुं, (द्रवति चन्द्रांशुसम्पर्कादिति । द्रु + ण्वुल् ।) प्रस्तरभेदः । (द्रावयतीति + द्रु + णिच् + ण्वुल् ।) विदग्धः । (द्रवति पलायते इति । द्रु + ण्वुल् ।) मोषकः । इति मेदिनी । के, १०४ ॥ शिड्गः । इति शब्दमाला ॥ रस- भेदः । इति शब्दरत्नावली ॥ (द्रावि + ण्वुल् ।) हृदयग्राही । द्रवकारकः । इति धरणिः ॥
