द्रावकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्रावकम्, क्ली, (द्रवति द्रावयति वा । द्रु द्रावि वा + ण्वु ल् ।) सिक्थकम् । इति राजनिर्घण्टः ॥ प्लीहरोगस्य औषधविशेषः । (यथा, -- “स्फटिकारीद्बयञ्चैव पलं द्बिपलिकन्तथा । नरसारं पलं देयं टङ्गणञ्च पलार्द्धकम् ॥ कासीशं शाणयुग्मञ्च प्रत्येकं श्लक्ष्णचूर्णितम् । सपञ्चलवणक्षारं कर्षमानं पृथक् पृथक् ॥ अपामार्गवृषस्यापि तथा कुष्माण्डकस्य च । रग्भावल्कलजं क्षारं प्रत्येकञ्चार्द्धशाणकम् ॥ श्लक्ष्णचूर्णीकृतञ्चैतत् लिम्पाकस्वरसे भुवि । सर्व्वमेतत् सुपिष्याथ रौद्रे दद्याद्विचक्षणः ॥ आनीय काचपात्रन्तु तत्र तत् पाचयेत् भिषक् प्रहरार्द्धं ददौ ज्वालां सालकाष्ठाग्निना मृदु । सुतप्ते काचकुम्भे च ततो ज्वालां निवारयेत् ॥ शीतं गते तदुद्धृत्य प्रक्षिपेच्च वराटकम् । वराटे द्रवतां याते ततः कर्म्मसु योजयेत् ॥ द्रावकस्य परीक्षेयं नान्यथा च भवत्यलम् । गुञ्जैकं स्याद्द्वयञ्चापि चूर्णेन मागधेन च ॥ शरपुष्पेण वा देयं तोयमुष्णं पिबेदनु ॥ पथ्यमेतद्द्रुतं देयं दुष्टशीताम्बुवर्ज्जितम् ॥” इति वैद्यककषायणसंग्रहे प्लीहसर्व्वोदरयकृ- दधिकारे ॥) अस्य अन्यद् विवरणं महाद्रावक- शब्दे द्रष्टव्यम् ॥
