सामग्री पर जाएँ

द्रुघणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्रुघणः, पुं, (द्रुर्वृक्षः हन्यतेऽनेनेति । हन + “करणे- ऽयोविद्रुषु ।” ३ । ३ । ८२ । इति अप् घना- देशश्च । “पूर्ब्बपदात् संज्ञायामगः ।” ८ । ४ । ३ । इति णत्वम् । द्रुममयो घनः इति वा ।) मुद्गरः । इत्यमरः । २ । ८ । ९१ ॥ सूत्रधारा- दिमुद्गराकारलौहमयास्त्रभेदः । इति भरतः ॥ (वैशम्पायनोक्तधनुर्व्वेदमतेऽयं परशुवल्लौहा- स्त्रम् । यदुक्तम् । “द्रुघणस्त्वायसाङ्गः स्यात् वक्रग्रीवो बृहच्छिराः । पञ्चाशदङ्गुलोत्सेधो मुष्टिसम्मितमण्डलः ॥” अस्य चतस्रः क्रियाः । यथा, -- “उन्नामनं प्रपातश्च स्फोटनं दारणं तथा । चत्वार्य्येतानि द्रुघणे वल्गितानि श्रितानि वै ॥” द्रुः संसारवृक्षो हन्यतेऽनेनेति ।) ब्रह्मा । कुठारः । इति मेदिनी । णे, ५३ ॥ भूमिचम्पकः । इति शब्दचन्द्रिका ॥ दन्त्यनान्तोऽपि ॥

"https://sa.wiktionary.org/w/index.php?title=द्रुघणः&oldid=141733" इत्यस्माद् प्रतिप्राप्तम्