सामग्री पर जाएँ

द्रुतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्रुतम्, त्रि, (द्रवति स्मेति । द्रु + गत्यर्थेति कर्त्तरि क्तः ।) जातद्रवीभावघृतसुवर्णादि । तत्- पर्य्यायः । अवदीर्णम् २ विलीनम् ३ विद्रुतम् ४ । इत्यमरः । ३ । १ । १०० ॥ शीघ्रम् । (यथा, महाभारते । १३ । २६ । ८१ । “वाय्वीरिताभिः सुमनोहराभि- र्द्रुताभिरत्यर्थसमुत्थिताभिः । गङ्गोर्म्मिभिर्भानुमतीभिरिद्धाः सहस्ररश्मिप्रतिमा भवन्ति ॥”) विद्रावम् । पलायितम् । इति मेदिनी । ते, २५ ॥ (यथा, रघुः । ९ । ५९ । “जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ॥”)

द्रुतम्, क्ली, (द्रु + क्तः ।) नृत्यविषयकशीघ्रगमनम् । तत्पर्य्यायः । ओघः २ । इत्यमरः १ । २ । ६८ ॥ शीघ्रलयः । इति मधुः ॥ नृत्यगीतादौ द्रवन्ति गच्छन्ति समुदायगतिप्रदर्शनार्थं करा- दयोऽत्र । इति भरतः ॥ साञ्जे । “द्रुतामध्ययने वृत्तिं प्रयोगार्थे तु मध्यमाम् । शिष्याणामुपरोधार्थे विलम्बितां समाचरेत् ॥” इति वेदव्यवस्था ॥ (क्षिप्रम् । यथा, मनुः । ९ । १७२ । “अभ्याधातेषु मध्यस्थान् शिष्याच्चौरानिव द्रुतम् ॥” क्रियाविशेषणत्वादस्य क्लीवता ॥)

"https://sa.wiktionary.org/w/index.php?title=द्रुतम्&oldid=141747" इत्यस्माद् प्रतिप्राप्तम्