द्रोणः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्रोणः, पुं, क्ली, (द्रवतीति । द्रुगतौ + “कॄवृजॄषि- द्रुपन्यनिस्वपिभ्यो नित् ।” उणां ३ । १० । इति नः ।) आढकपरिमाणम् । आढकचतुष्टयम् । इति शब्दरत्नावली ॥ ३२ शेर इति लाकिक- मानम् । तत्पर्य्यायः । घटः २ कलसः ३ उन्मा- नम् ४ लल्वणः ५ अर्म्मणः ६ । इति वैद्यकपरि- भाषा ॥ “द्रोणस्तु खार्य्याः खलु षोडशांशः ।” इति लीलावती ॥ (अरणीकाष्ठम् । यथा, ऋग्वेदे । ६ । २ । ८ । “क्रत्वा हि द्रोणे अज्यसेऽग्ने वाजी न कृत्व्यः ।” “हे अग्ने क्रत्वा कर्म्मणा मन्थनरूपेण द्रोणे द्रुमे काष्ठेऽरण्यां विद्यमानस्तमज्यसे हि ।” इति तद्भाष्ये सायनः ॥ काष्ठनिर्म्मितकलशः । यथा, तत्रैव । ६ । ३७ । २ । “प्रो द्रोणे हरयः कर्म्माग्मन् पुनानास ऋज्यन्तो अभूवन् ॥” “द्रोणे द्रोणकलश ऋज्यन्त ऋजु गच्छन्तोऽभू- वन् ।” इति सायनः ॥ द्रुममयरथः । इति निरुक्तम् । ५ । २६ ॥ यथा, ऋग्वेदे । ६ । ४४ । २० । “आ ते वृषन् वृषणो द्रोणमस्थुः ।” “द्रोणं द्रुममयं रथमस्थुः ।” इति सायनः ॥)
द्रोणः, पुं, (द्रोणः कलस उत्पत्तिस्थानत्वेनास्त्यस्य । द्रोण + अच् ।) द्रोणाचार्य्यः । (अयं कुरु- पाण्डवानां आचार्य्यः । अस्य पिता भरद्वाजः । अस्य जन्मवृत्तान्तं यदुक्तं महाभारते । १ । १३१ । ९-१६ । “गङ्गाद्वारं प्रति महान् बभूव भगवानृषिः । भरद्वाज इति ख्यातः सततं संशितव्रतः ॥ सोऽभिषेक्तुं ततो गङ्गां पूर्ब्बमेवागमन्नदीम् । महर्षिभिर्भरद्वाजो हविर्द्धाने चरन् पुरा ॥ ददर्शाप्सरसं साक्षात् घृताचीमाप्लुतामृषिः । रूपयौवनसम्पन्नां मददृप्तां मदालसाम् ॥ तस्याः पुनर्नदीतीरे वसनं पर्य्यवर्त्तत । व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥ तत्र संसक्तमनसो भरद्वाजस्य धीमतः । ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥ ततः समभवद्रोणः कलसे तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्व्वशः ॥ अग्निवेशं महाभागं भरद्वाजः प्रतापवान् । प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदांवरः ॥ अग्नेस्तु जातः स मुनिस्ततो भरतसत्तम ! । भारद्बाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥” अस्य पत्नी कृपाचार्य्यभगिनी कृपी पुत्त्रस्तु अश्वत्थामा । अयं हि भारतयुद्धे दुर्य्योधनस्य पक्षमवलम्ब्य पञ्चदशदिनं यावत् युद्धमकरोत् । तत्र पूर्ब्बं दशदिनं भीष्मदेवस्याधीनत्वेन स्थित्वा पश्चादस्य शरशय्याग्रहणानन्तरं एकादश- दिनात् स्वयं सेनापतिरभवत् । तत एनं अधर्म्म- युद्धनिरतं दृष्ट्वा ऋषयः समागत्य सम्प्राप्तं मृत्यु- कालं विज्ञापयामास । यथा, महाभारते । ७ । १८९ । ४६-५२ । “त एनमब्रुवन् सर्व्वे द्रोणमाहवशोभिनम् । अधर्म्मतः कृतं युद्धं समयो निधनस्य ते ॥ न्यस्यायुधं रणे द्रोण ! समीक्ष्यास्मानवस्थितान् । नातः क्रूरतरं कर्म्म पुनः कर्त्तुमिहार्हसि ॥ रुदन्ति पाण्डवाः सर्व्वे हाहा के शव के शव ॥”) वृश्चिकः । इति राजनिर्घण्टः ॥ चतुःशतधनुः- परिमितजलाशयः । यथा, शतेन धनुर्भिः पुष्क- रिणी । त्रिभिः शतैर्दीघिका । चतुर्भिर्द्रोणः । पञ्चभिस्तडागः । द्रोणाद्दशगुणा वापी । इति जलाशयतत्त्वम् ॥ मेघनायकः । यथा, -- “त्रियुते शाकवर्षे तु चतुर्भिः शेषितः क्रमात् । आवर्त्तं विद्धि सम्बर्त्तं पुष्करं द्रोणमम्बुदम् ॥ आवर्त्तो निर्जलो मेघः सम्बर्त्तश्च बहूदकः । पुष्करो दुष्करजलो द्रोणः शस्यप्रपूरकः ॥” इति ज्योतिस्तत्त्वम् ॥ श्वेतवर्णक्षुद्रपुष्पवृक्षविशेषः । घलघसिया इति हलकसिया इति च भाषा ॥ यथा, -- “ब्रह्मविष्णुशिवादीनां द्रोणपुष्पं सदा प्रियम् । तत्ते दुर्गे ! प्रयच्छामि पवित्रन्ते सुरेश्वरि ! ॥” इति स्मार्त्तकृतदुर्गार्च्चाप्रयोगः ॥ (शाकद्वीपान्तर्गतपर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ५६ । “चतुर्थः पर्व्वतो द्रोणो यत्रौषध्यो महागिरौ । विशल्यकरणी चैव मृतसञ्जीवनी तथा ॥” वसुपुत्त्रविशेषः । यथा भागवते । ६ । ६ । ११ । “वसवोऽष्टौ वसोः पुत्त्रास्तेषां नामानि मे शृणु । द्रोणः प्राणो ध्रुवोऽर्कोऽग्निर्दोषो वास्तुर्विभा- वसुः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्रोणः [drōṇḥ], [cf. Un. 3. 1.]
A lake 4 poles long.
A cloud (or a particular kind of cloud) abounding in water (from which rain streams forth as from a bucket). को$यमेवंविधे काले कालपाशस्थिते मयि । अनावृष्टिहते शस्ये द्रोणमेघ इवोदितः ॥ Mk.1.26.
A raven or a carrion crow.
A scorpion.
A tree (in general).
A tree bearing (white) flowers.
N. of the preceptor of the Kauravas and Pāṇḍavas. [Droṇa was the son of the sage Bharadvāja, and was so called because the seed, which fell at the sight of a nymph called Ghṛitāchī, was preserved by the sage in a droṇa. Though a Brāhmaṇa by birth, he was well-versed in the science of arms which he learnt from Paraśurāma. He afterwards taught the Kauravas and the Pāṇḍavas the science of arms and archery. When, however, the great war commenced, he attached himself to the side of the Kauravas, and after Bhīṣma had been mortally wounded-'lodged in the cage of darts'- he assumed the command of the Kaurava forces and maintained the struggle for four successive days, achieving wonderful exploits and killing thousands of warriors on the Pāṇḍava side. On the fifteenth day of the battle the fight continued even during the night, and it was on the morning of the 16th that Bhīma, at the suggestion of Kṛiṣṇa, said within Droṇa's hearing that Aśvatthāman was slain (the fact being that an elephant named Aśvatthaman had fallen on the field). Being at a loss to understand how that could be, he appealed to Yudhiṣṭhira, 'the truthful', who also, at the advice of Kṛiṣṇa, gave an evasive replyuttered loudly the word Aśvatthāman and added 'Gaja or elephant' in a very low tone; sec Ve.3.9. Sorely grieved at the death of his only son, the kind-hearted old father fell in a swoon, and Dhṛiṣṭadyumna, his avowed enemy, took advantage of this circumstance, and cut off his head.] -णः, -णम् A measure of capacity, either the same as an Āḍhaka or equal to 4 Āḍhakas or 1/16 of a Khāri, or 32 or 64 shers; द्रोणस्तु खार्याः खलु षोडशांशः Lilā (Mar. अदमण).
णम् A wooden vessel or cup, bucket; ततो$स्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे Mb.1.13. 37.
A tub. -Comp. -आचार्यः see द्रोण above. -कलशः A kind of sacrificial vessel. -काकः, -काकलः a raven.-क्षीरा, -घा, -दुग्धा, -दुघा a cow yielding a droṇa of milk; सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति Mb.12.29.58.-गन्धिका a kind of plant (रासना). -मुखम् the capital of 4 villages; चतुःशतग्राम्या द्रोणमुखम् Kau. A.22. -मेघः see द्रोण (2) above. -वृष्टिः rain streaming forth from the द्रोण (cloud); अनावृष्टिहते सस्ये द्रोणवृष्टिरिवागता Mk.1.39.
