द्रोणदुधा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्रोणदुधा, स्त्री, (द्रोणं दोग्धीति । दुह + “दुहः कप् घश्च ।” ३ । २ । ७० । इति कप् घश्चान्तादेशः ।) द्रोणपरिमितदुग्धदात्री गवी । तत्पर्य्यायः । द्रोणक्षीरा २ । इत्यमरः । २ । ९ । ७२ ॥ द्रोणमाना ३ द्रोणधा ४ पयस्विनी ५ । इति शब्दचन्द्रिका ॥ द्रोणदुग्धा ६ । इति हेमचन्द्रः । ४ । ३३५ ॥ द्रोणमानपयस्विनी ७ । इति शब्दरत्नावली ॥
