सामग्री पर जाएँ

द्रोणपुष्पी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्रोणपुष्पी, स्त्री, (द्रोणवत् पुष्पं यस्याः ङीष् ।) क्षुद्र- क्षुपविशेषः । गूमा इति ख्याता । तत्पर्य्यायः । खर्व्वपत्रा २ कुम्भयोनिः ३ कुरुम्बिका ४ चित्रा- क्षुपः ५ कुरुम्बा ६ सुपुष्पा ७ चित्रपत्रिका ८ । इति राजनिर्घण्टः ॥ द्रोणा ९ फलेपुष्पा १० । इति भावप्रकाशः ॥ अस्या गुणाः । कटुत्वम् । उष्णत्वम् । रुच्यत्वम् । वातकफाग्निमान्द्यपक्ष- वातनाशित्वञ्च । इति राजनिर्घण्टः ॥ गुरुत्वम् । स्वादुत्वम् । रूक्षत्वम् । वातपित्तकारित्वम् । सक्षारलवणत्वम् । स्वादुपाकित्वम् । भेदकत्वम् । आमकामलाशोथतमकश्वासजन्तुनाशित्वञ्च । इति भावप्रकाशः ॥ गोशीर्षकवृक्षः । इति रत्नमाला ॥ घलघसिया इति भाषा । अस्य गुणः । कफार्शःकामलाक्रिमिशोथनाशित्वम् । इति राजवल्लभः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्रोणपुष्पी¦ स्त्री द्रोणस्य पुष्पमिव पुष्पमस्याः जातित्वात्ङीष्। (गुमक) इति ख्याते

१ क्षुपभेदे
“द्रोणपुष्पी गुरुःस्वादू रूक्षोष्णा वातपित्तकृत्। स क्षारलबणा स्वादु-पाका कट्वी च भेदिनी। कफायकामलाशोथतमकश्वासजन्तुजित्” भावप्र॰।

२ द्रोणवृक्षे रत्नमाला।
“द्रोण-पुष्पीदलं स्वादु रूक्षं गुरु च पित्तकृत्। भेदकंकामलाशोथमेहपूयहरं कट्” वैद्यकम्। [Page3790-a+ 38]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्रोणपुष्पी¦ f. (-ष्पी) A plant, known commonly by the same name; also गोशीर्षक। E. द्रोण the measure, and पुष्प a flower.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्रोणपुष्पी/ द्रोण--पुष्पी f. Phlomis Zeylanica or other plant Bhpr.

"https://sa.wiktionary.org/w/index.php?title=द्रोणपुष्पी&oldid=317839" इत्यस्माद् प्रतिप्राप्तम्