द्रोणीलवणम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्रोणीलवणम्, क्ली, (द्रोणीसम्भूतं लवणम् ।) उप- कर्णाटदेशप्रसिद्धलवणविशेषः । तत्पर्य्यायः । द्रोणेयम् २ वार्द्धेयम् ३ द्रोणीजम् ४ वारिजम् ५ वार्द्धिभवम् ६ द्रोणी ७ त्रिकूटलवणम् ८ । अस्य गुणाः । पाकेनात्युष्णत्वम् । अविदाहि- त्वम् । भेदनत्वम् । स्निग्धत्वम् । शूलनाशित्वम् । अल्पपित्तलत्वञ्च । इति राजनिर्घण्टः ॥
