द्वन्द्वः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वन्द्वः, पुं, (द्वौ द्वौ सहाभिव्यक्तौ इति । निपा- तनात् साधुः । चार्थे द्बन्द्व इति निर्द्देशात् पुंस्त्वभ् ।) रोगविशेषः । समासभेदः । इति शब्दरत्नावली ॥ स तु भिन्नार्थानां पदानां समासः । वोपदेवेनास्य चसंज्ञा कृता । स इतरेतरयोगसमाहारभेदेन द्विधा भवति । इत- रेतरद्वन्द्वो यथा । हरिश्च हरश्च हरिहरौ । अत्र प्रत्येकपदप्राधान्यात् द्वित्वं बहुत्वं शेष- शब्दलिङ्गभाजित्वञ्च भवति । समाहारद्बन्द्बो यथा । वाक् च त्वक् च द्वयोः समाहारः वाक्- त्वचम् । अत्र संहतेरेकत्वादेकवचनं नित्य- क्लीवलिङ्गत्वञ्च भवति । इति मुग्धबोधम् ॥ (यदुक्तं, -- “द्बन्द्वो द्बिगुरपि चाहं मद्गृहे नित्यमव्ययीभावः ॥”)
