द्वात्रिंशल्लक्षणोपेतः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वात्रिंशल्लक्षणोपेतः, पुं, (द्वात्रिंशल्लक्षणैरुपेतः ।) महापुरुषः । इति शब्दार्थकल्पतरुः ॥ तल्लक्ष- णानि यथा, -- “रागः सप्तसु हन्त षट्स्वपि शिशोरङ्गेष्वलं तुङ्गता विस्तारस्त्रिषु खर्व्वता त्रिषु तथा गम्भीरता च त्रिषु । दैर्ध्यं पञ्चसु किञ्च पञ्चसु सखे ! संप्रेक्ष्यते सूक्ष्मता द्वात्रिंशद्वरल णः कथमसौ गोपेषु सम्भा- व्यते ॥” इति श्रीहरिभक्तिरसामृतसिन्धुः ॥ “राग इति । श्रीमद्व्रजेश्वरं प्रति कस्यचित् सव- यसो गोपस्य वाक्यमिदम् । सप्तसु नेत्रान्त- पादकरतलताल्वधरौष्ठजिह्वानखेषु षट्सु वक्षः- स्कन्धनखनासिकाकटिमुखेषु । त्रिषु कटिललाट- वक्षःसु । केचित् कटिस्थाने शिरः पठन्ति । पुनस्त्रिषु ग्रीवाजङ्घामेहनेषु । पुनस्त्रिषु नाभि- स्वरसत्वेषु । पञ्चसु नासाभुजनेत्रहनूजानुषु । पुनः पञ्चसु त्वक्केशरोमदन्ताङ्गुलिपर्व्वसु । तथैव महापुरुषलक्षणे सामुद्रकग्रन्थप्रसिद्धेः । द्वात्रिंशद्वराणि तत्तल्लक्षणेभ्यः अन्येभ्योऽपि श्रेष्ठानि लक्षणानि यस्य सः गोपेषु कथमिति भगवदवतारादिषु अप्येतादृशत्वाश्रवणादिति भावः ।” इति श्रीजीवगोस्वामिविरचिता दुर्गम- सङ्गमनीनाम्नी टीका ॥
