द्वादशः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वादशः, त्रि, (द्वादशानां पूरणः । “तस्य पूरणे डट् ।” ५ । २ । ४८ । इति डट् ।) द्वादशानां पूरणः । इति व्याकरणम् ॥ वारै इति भाषा । (यथा, मनुः । “गर्भाष्टमेऽब्दे कुर्व्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राज्ञो गर्भाच्च द्बादशे विशः ॥” महादेवः । यथा, महाभारते । १३ । १७ । ९३ । “द्वादशस्त्राशनश्चाद्यो यज्ञो यज्ञसमाहितः ॥”)

"https://sa.wiktionary.org/w/index.php?title=द्वादशः&oldid=141875" इत्यस्माद् प्रतिप्राप्तम्