सामग्री पर जाएँ

द्वादशपत्रकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्वादशपत्रकम्, क्ली, (द्वादश अक्षराणि पत्राणि इव यस्य ।) योगविशेषः । यथा, -- “पितामहोऽपि तं पुत्त्रं साध्यं सद्विनये रतम् । सनत्कुमारं प्रोवाच योगं द्वादशपत्रकम् ॥ शिखासंस्थन्तु ओ~कारं मेषोऽस्य शिरसि स्थितः । मासो वैशाखनामा च प्रथमं पत्रकं स्मृतम् ॥ नकारः शिरसि प्रोक्तो वृषोऽस्य शिरसि स्थितः । ज्यैष्ठमासश्च तत् पत्रं द्वितीयं परिकीर्त्तितम् ॥ मोकारो भुजयोर्युग्मं मिथुनं तत्र संस्थितःम् मास आषाढनामा च तृतीयं पत्रकं स्मृतम् ॥ भकारो नेत्रयुगलं कर्क्कटस्तत्र संस्थितः । मासः श्रावण इत्युक्तश्चतुर्थं पत्रकं स्मृतम् ॥ गकारो हृदयं प्रोक्तं सिंहो वसति तत्र च । मासो भाद्रस्तथा प्रोक्तः पञ्चमं पत्रकं स्मृतम् । वकारं कवचं विद्यात् कन्या तत्र प्रतिष्ठिता । मासश्चाश्वयुजो नाम षष्ठं तत्पत्रकं स्मृतम् ॥ तेकारमन्त्रग्रामश्च तुलाराशिकृताश्रयः । मासश्च कार्त्तिको नाम सप्तमं पत्रकं स्मृतम् ॥ वाकारो नाभिसंयुक्तः स्थितस्तत्र च वृश्चिकः । मासो मार्गशिरो नाम त्वष्टकं पत्रकं स्मृतम् ॥ सुकारो जघनः प्रोक्तस्तत्रस्थश्च धनुर्धरः । पुष्येति गदितो मासो नवमं परिकीर्त्तितम् ॥ देकारश्चोरुयुगलं मकरोऽप्यत्र संस्थितः । माघो निगदितो मासः पत्रकं दशमं स्मृतम् ॥ वाकारो जानुयुगलं कुम्भस्तत्रापि संस्थितः । पत्रकं फाल्गुनः प्रोक्तं तदेकादशमुत्तमम् ॥ पादौ यकारो मीनो हि स चैत्रे वसते मुने ! । इदन्तु द्बादशं प्रोक्तं पत्रं वै केशवस्य हि ॥ द्वादशारन्तथा चक्रं यन्नाभिद्विभुजन्तथा । त्रिव्यूहन्त्वेकमूर्त्तिश्च तथोक्तः परमेश्वरः ॥ एतत्तवोक्तं देवस्य रूपं द्वादशपत्रकम् । यस्मिन् ज्ञाते मुनिश्रेष्ठ ! न भूयो मरणं भवेत् ॥” इति वामनपुराणेऽष्टपञ्चाशत्तमोऽध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=द्वादशपत्रकम्&oldid=141879" इत्यस्माद् प्रतिप्राप्तम्