द्वाविंशतिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वाविंशतिः, स्त्री, (द्व्यधिका विंशतिरिति । “द्व्यष्टनः संख्यायामबहुब्रीह्यशीत्योः ।” ६ । ३ । ४७ । इति आत्प्रत्ययः ।) द्व्यधिकविंशतिः । इति व्याकरणम् ॥ वाइश इति भाषा । (यथा, महाभारते । ७ । ४६ । १८ । “कर्णो द्वाविंशतिं भल्लान् कृतवर्म्मा चतुर्द्दश ॥”)
