सामग्री पर जाएँ

द्विगुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्विगुः, पुं, षट्समासान्तर्गतसमासविशेषः । स तु संख्यापूर्ब्बपदानां समासः । वोपदेवेनास्य ग- संज्ञा कृता । स च त्रिविधः । तद्धितार्थः १ समाहारः २ उत्तरपदपरश्च ३ । तद्धितार्था- ऽपि द्विविधः । तद्धितप्रत्ययमात्रस्य अजादे- र्हसादेर्व्वा अर्थे विषये इत्येकः । अपत्यार्थष्ण्या- दिकं त्यक्त्रा अजादेस्तद्धितस्यार्थे वाच्ये इत्यपरः । तद्धितार्थविषयो यथा, द्वयोर्मात्रोरपत्यं द्वैमा- तुरः । पञ्चानां नापितानामपत्यं पाञ्चनापितिः ॥ तद्धितार्थवाच्यो यथा, पञ्चभिर्गोभिः क्रीतः पञ्चगुः ॥ समहारो यथा, त्रयाणां सखीनां समा हारः त्रिसखम् । समाहारे अदन्तानां स्त्रीत्वं पात्रादेस्तु क्लीवत्वम् ॥ उत्तरपदपरो यथा, -- पञ्च गावो धनं यस्य स पञ्चगवधन इत्यादि । इति मुग्धबोधटीकायां दुर्गादासः ॥ (द्वौ द्बे वा गावौ यस्य इति विग्रहे गौणत्वे गोशब्दस्य ह्रस्वः । द्विगवस्वामिके, त्रि । यथा, -- “द्वन्दो द्बिगुरपि चाहं मद्गेहे नित्यमव्ययीभावः । तत् पुरुष कर्म्म धारय येनाहं स्यां बहुव्रीहिः ॥” इत्युद्भटः ॥)

"https://sa.wiktionary.org/w/index.php?title=द्विगुः&oldid=141952" इत्यस्माद् प्रतिप्राप्तम्