द्विजः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विजः, पुं, (द्विर्जायते इति । जन + “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति डः ।) संस्कृत- ब्राह्मणः । यथा, -- “जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते ।” इति स्मृतिः ॥ सद्वृत्तब्राह्मणः । तल्लक्षणं यथा, -- अम्बरीष उवाच । “कीदृशाय प्रदातव्यं महादानं द्विजातये । विदुषे वा निराधारे साचारेऽविदुषे मुने ! ॥ एतन्मे सर्व्वमाख्याहि यथातथ्यं द्विजोत्तम ! । उत्तारयति संगृह्य दातारं दानमेव हि ॥ वशिष्ठ उवाच । जात्या कुलेन वृत्तेन स्वाध्यायेन शुतेन च । एभिर्युक्तो हि यस्तिष्ठेत् नित्यं स द्विज उच्यते ॥ न जातिर्न कुलं राजन् ! न स्वाध्यायः श्रुतं न च । कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ॥” इति वह्निपुराणे प्रेतोपाख्याननामाध्यायः ॥ क्षत्त्रियः । वैश्यः । इति मेदिनी । जे, १० ॥ (यथा, याज्ञवल्क्ये । १ । ३९ । “मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्त्रियविशस्तस्मादेते द्विजाः स्मृताः ॥” दन्तः । (यथा, -- “न च्छित्वा द्विजैर्भक्षयेत् ॥” इति चरके सूत्र- स्थानेऽष्टमेऽध्याये ॥) अण्डजः । स पक्षिसर्पमत्- स्यादिः । इत्यमरः । ३ । ३ । ३० ॥ (यथा, रघुः । १२ । २२ । “ऐन्द्रिः किल नखैस्तस्या विददार स्तनौद्विजः ॥”) तुम्बुरुवृक्षः । इति राजनिर्घण्टः ॥ द्विर्जाते, त्रि ॥
