द्विजन्मा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विजन्मा, [न्] पुं, (द्वे जन्मनी यस्य ।) ब्राह्मणः । (यथा, देवीभागवते । ५ । ५ । ३ । “यतीनां भूषणं ज्ञानं सन्तोषो हि द्विजन्मनाम् ॥”) दन्तः । पक्षी । इति शब्दरत्नावली ॥ क्षत्त्रियः । वैश्यश्च । त्रि, द्बिवारजन्मयुक्तः । (द्बाभ्यां जाय- मानः । यथा, ऋग्वेदे । १ । १४० । २ । “अभिद्बिजन्मा त्रिवृदन्नमृज्यते । संवत्सरे वावृधे जन्धमी पुनः ॥” “द्वाभ्यामरणीभ्यां जायमानत्वात् यद्बा मथने- नाघानसंस्कारेण चोत्पन्नत्वात् द्विजन्मत्वम् ।” इति तद्भाष्ये सायनः ॥)
