द्विजराजः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विजराजः, पुं, (द्विजानां राजा । “राजाहः- सखिभ्यष्टच् ।” ५ । ४ । ९ । इति टच् ।) चन्द्रः । (यथा, देवीभागवते । १ । ११ । ७२ । “द्बिजराजस्तु तच्छ्रुत्वा भृगोर्व्वचनमद्भुतम् । ददावतत्प्रियां भार्य्यां गुरोर्गर्भवतीं शुभाम् ॥”) कर्पूरः । इत्यमरः ॥ अनन्तः । गरुडः । इति मेदिनी । जे, ३२ ॥
