द्विजा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विजा, स्त्री, (द्विर्जायते इति । जन् + डः । टाप् ।) रेणुकानामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२० ॥ (अस्याः पर्य्यायो यथा, -- “रेणुका राजपुत्त्री च नन्दिनी कपिला द्विजा । भस्मगन्धा पाण्डुपत्री स्मृता कौन्ती हरेणुका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) भार्गी । इति मेदिनी । जे, १० ॥ पालङ्की । इति शब्दचन्द्रिका ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विजा स्त्री।
हरेणुका
समानार्थक:द्विजा,हरेणू,रेणुका,कौन्ती,कपिला,भस्मगन्धिनी
2।4।120।1।4
ताम्बूलवल्ली तम्बूली नागवल्ल्यप्यथ द्विजा। हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विजा¦ स्त्री द्विर्जायते जन--ड।
१ रेणुकोनामगन्धद्रव्ये अमरः
२ भार्ग्यां मेदि॰।
३ पालङ्क्यां (पालङ्) शाकभेदे शब्दच॰। तासां कर्तनेऽपि पुनर्जायमानत्वात् तथात्वम्।
४ द्विज-जातिस्त्रियां
४ तत्पत्न्यां च स्त्री ङीष्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विजा/ द्वि--जा mfn. twice-born RV.
द्विजा/ द्वि-जा f. Piper Aurantiacum Bhpr.