द्विजातिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विजातिः, पुं, (द्वे जाती यस्य ।) ब्राह्मणः । इत्य- मरः । २ । ७ । ४ ॥ (यथा, महाभारते । १ । ७४ । ६१ । “वेदेष्वपि वदन्तीमं मन्त्रजातं द्विजातयः ॥”) अण्डजः । इति मेदिनी । ते, ११४ ॥ क्षत्त्रियः । वैश्यः । यथा, -- “शूद्रो द्विजातिभिर्जातो न भूमेर्भागमर्हति ।” इति स्मृतिः ॥ (यथा च मनुः । १० । ४ । “ब्राह्मणः क्षत्त्रियो वैश्यस्त्रयो वर्णा द्विजातयः । चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥”)
