द्विजिह्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजिह्वः, पुं, (द्वे जिह्वे यस्य ।) सर्पः । (अस्य पर्य्यायो यथा वैद्यकरत्नमालायाम् । “व्याडश्चाशीविषः सर्पोद्विजिह्वोऽहिः सरीसृपः । चक्षुःश्रवा दन्दशूको गूढपात्पन्नगोरगाः ॥”) सूचकः । इत्यमरः । ३ । ३ । १३३ ॥ (यथा, माधे । १ । ६३ । “परस्य मर्म्माविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः ॥”) खलः । इति मेदिनी । वे, १२ ॥ चौरः । दुःसाध्यः । इति शब्दरत्नावली ॥ (रोग- विशेषः । यथा, सुश्रुते निदानस्थाने १४ अध्याये । “ज्ञेयो द्विजिह्वः खलु रोग एष विवर्ज्जयेदागतपाकमेनम् ॥” त्रि, द्विजिह्वाविशिष्टः । यथा, महाभारते । १ । ३४ । २४ । “द्बिजिह्वाश्च कृताः सर्पा गरुडेन महात्मना ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजिह्व पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

3।3।133।2।2

अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने। कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

द्विजिह्व पुं।

सूचकः

समानार्थक:पिशुन,द्विजिह्व

3।3।133।2।2

अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने। कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजिह्व¦ पुंस्त्री॰ द्वे जिह्वे नस्य। सर्पे स्त्रियां जातित्वात्ङीष्। तेषां द्विजिह्वत्वकथा भा॰ आ॰

३४ अ॰ यथा[Page3814-b+ 38](
“अथ सर्पानुवाचेदं सर्वान् परमहृष्टवत्। इदमा-नीतममृतं निक्षेप्स्यामि कुशेषु वः। स्नाता मङ्गल-संयुक्तास्ततः प्राश्नीत पन्नगाः!। भवद्भिरिदमासीनैर्यदुक्तंतद्वचस्तदा। अदासी चैव मातेयमद्यप्रभृति चास्तु मे। यथोक्तं भवतामेतद्वचो मे प्रतिपादितम्। ततः स्नातुंगताः सर्पाः प्रत्युक्त्वा तं तथेत्युत। शक्रोऽप्यमृतमाक्षिप्यजगाम त्रिदिवं पुनः। अथागतास्तमुद्देशं सर्पाः सुधा-र्थिनस्तदा। स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः। यत्रैतदमृतं चापि स्थापित कुशसंस्तरे। तद्विज्ञायहृतं सर्पाः प्रतिमायाकृतञ्च तत्। सोमस्थानमिदं चेतिदर्भांस्ते लिलिहुस्तदा। ततो द्विधाकृता जिह्वा सर्पाणांतेन कर्मणा। अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रि-णः। एवं तदमृतं तेन हृतमा हृतमेव च। द्विजि-ह्वाश्च कृताः सर्पा गरुडेन महात्मना”।

२ सूचके चत्रि॰ अमरः।

३ खले मेदि॰।

४ चौरे

५ दुःसाध्ये चशब्दर॰। तेषां सर्पतुल्यमर्माविधत्वात्तथात्वम्।
“परस्यमर्माविधमुज्झतां निजम् द्विजिह्वतादोषमजिह्मगा-मिभिः”।
“तमिद्धमाराधयितुं सकर्णकैः कुलैर्न्न भेजेफणिनां भुजङ्गता” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजिह्व¦ (mfn.) (-ह्वः-ह्वा-ह्वं) Double-tongued, (literally or figuratively.) m. (-ह्वः)
1. A snake.
2. An informer.
3. A rogue, a scoundrel, a bad man.
4. A thief. E. द्वि two, जिह्वा the tongue. द्वे जिह्वे यस्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजिह्व/ द्वि--जिह्व mfn. ( द्वि-)double-tongued( lit. and fig. ) AV. MBh. etc. (598457 -ताf. 598457.1 -त्व, n. Ka1v. )

द्विजिह्व/ द्वि--जिह्व m. a partic. disease of the tongue Sus3r.

द्विजिह्व/ द्वि--जिह्व m. a snake MBh. R. etc.

द्विजिह्व/ द्वि--जिह्व m. informer , thief , scoundrel , villain W.

द्विजिह्व/ द्वि--जिह्व m. N. of a रक्षस्R.

"https://sa.wiktionary.org/w/index.php?title=द्विजिह्व&oldid=320514" इत्यस्माद् प्रतिप्राप्तम्