द्विजिह्वः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विजिह्वः, पुं, (द्वे जिह्वे यस्य ।) सर्पः । (अस्य पर्य्यायो यथा वैद्यकरत्नमालायाम् । “व्याडश्चाशीविषः सर्पोद्विजिह्वोऽहिः सरीसृपः । चक्षुःश्रवा दन्दशूको गूढपात्पन्नगोरगाः ॥”) सूचकः । इत्यमरः । ३ । ३ । १३३ ॥ (यथा, माधे । १ । ६३ । “परस्य मर्म्माविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः ॥”) खलः । इति मेदिनी । वे, १२ ॥ चौरः । दुःसाध्यः । इति शब्दरत्नावली ॥ (रोग- विशेषः । यथा, सुश्रुते निदानस्थाने १४ अध्याये । “ज्ञेयो द्विजिह्वः खलु रोग एष विवर्ज्जयेदागतपाकमेनम् ॥” त्रि, द्विजिह्वाविशिष्टः । यथा, महाभारते । १ । ३४ । २४ । “द्बिजिह्वाश्च कृताः सर्पा गरुडेन महात्मना ॥”)
