द्वित्राः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वित्राः, त्रि, (द्वौ वा त्रयो वा । “संख्ययाव्यया- सन्नादूराधिकसंख्याः संख्येये ।” २ । २ । २५ । इति समासः । “बहुब्रीहौ संख्येये डजबहु- गणात् ।” ५ । ४ । ७३ । इति डच् ।) द्बौ वा त्रयो वा इमे । इति संक्षिप्तसारः । नित्यबहु- वचनान्तोऽयम् ॥ (यथा, रघुः । ५ । २५ । “द्बित्राण्यहान्यर्हसि सोढुमर्हन् यावद् यते साधयितुं तदर्थम् ॥”)
