सामग्री पर जाएँ

द्विराषाढः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्विराषाढः, पुं, (द्विः आषाढः ।) मिथुनस्थरव्या- रब्धशुक्लप्रतिपदादिदर्शान्तमासद्वयम् । स च आषाढमलमासे भवति । यथा, ज्योतिषे । “मिथुनस्थो यदा भानुरमावास्याद्वयं स्पृशेत् । द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥” मिहिरश्च । “माधवादिषु षट्केषु मासि दर्शद्वयं यदा । द्विराषाढः स विज्ञेयः शेते तु श्रावणेऽच्युतः ॥” इति मलमासतत्त्वम् ॥ अन्यच्च । “पौर्णमास्या द्वयं यत्र पूर्ब्बाषाढाद्वयं भवेत् । द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥” इति गारुडे ६० अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=द्विराषाढः&oldid=142068" इत्यस्माद् प्रतिप्राप्तम्