द्विविदः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्विविदः, पुं, वानरविशेषः । इति हेमचन्द्रः ॥ (अयं हि नरकासुरस्य मित्रम् । यथा, विष्णु- पुराणे । ५ । ३६ । २ । “नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः । सखाभवन्महावीर्य्यो द्विविदो नाम वानरः ॥” स तु बलरामेण हतः । यथा, तत्रैव । ५ । ३६ । २० । “ततो बलेन कोपेन मुष्ठिना मूर्द्ध्व्नि ताडितः । पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः ॥” श्रीरामस्य सचिववानराणामन्यतमः । यथा, महाभारते । ३ । २७९ । २३ । “मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः । जाम्बवानृक्षराजश्च सुग्रीवः सचिवाः स्मृताः ॥”) “समुद्रस्योत्तरे तीरे द्बिविदो नाम वानरः । ऐकाहिकज्वरं हन्ति तस्य नामानुकीर्त्तनात् ॥” इति ज्योतिषम् ॥
