द्वेष्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वेष्यः, त्रि, (द्बेष्टुमहः । यत् ।) द्बेषविषयः । विद्वेषार्हः । तत्पर्य्यायः । अक्षिगतः २ । इत्य- मरः । ३ । १ । ४५ ॥ (यथा, महाभारते । ४ । १६ । १८ । “मुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् । यथावत् सर्व्वमाचक्ष्व श्रुत्वा धास्याभि यत्- क्षमम् ॥” द्विष्यतेऽसाविति । द्विष + ण्यत् । शत्रुः । यथा, रघुः । १ । २८ । “द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥”)
