द्वैतवादिन्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वैतवादी, [न्] त्रि, (द्वैतं जीव ईश्वरश्चेति द्वयं वदतीति । वद + णिनिः ।) जीवेश्वरयोर्भेद- वादी । ईश्वरातिरिक्तजीववक्ता । तस्य मतं यथा, परमात्मनो जीवात्मा पृथक् तन्मध्ये केषाञ्चिन्मते प्रकृतिरतिरिक्ता केषाञ्चिन्मते प्रकृ- तिरदृष्टमात्रे पर्य्यवसिता एवं जीवश्च पृथक् । अत्र प्रमाणम् । जन्मकर्म्ममरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्य्ययाच्चैव ॥ इति साङ्ख्यमतम् ॥ तत्रेश्वरः सर्व्वज्ञः परमात्मा एक एव । जीवः प्रतिशरीरं भिन्नः विभुर्नित्यश्च । इति गोतम- मतम् ॥ इह ब्रह्मणो जीवेतरत्वप्रतिपादनात् तयोरद्वैतं नाभिमतम् । नेतरोऽनुपपत्तेर्भेदव्यपदेशाच्च मुक्तोऽप्यसृप्य व्यपदेशादाकाशोऽर्थान्तरत्वादि- व्यपदेशाद्भोगमात्रसाम्यलिङ्गाच्चेति सूत्रैर्मोक्षे- ऽपि तयोर्द्वैतनिरूपणाच्च । इति गोविन्दभाष्य- मतम् ॥ यतो द्वैतमते युक्तिरेव प्रमाणं युक्त्या यत् फलति तदेव सर्व्वाध्यात्मविद्याप्रतिपादकश्रुतीनां तात्- पर्य्यम् । इति रामानुजमतञ्च ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वैतवादिन्¦ त्रि॰ द्वैतं जीवभेदं जीवेश्वरयोर्भेदं वा वदतिवद--णिनि। जीवभेदवादिनि जीवेश्वरयोर्भेदवादिनिच नैयायिकादौ।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वैतवादिन्¦ m. (-दी) A philosopher who asserts two principles. E. द्वैत, and वादिन् who asserts. द्वैतं जीवभेदं जीवेश्वरयोः भेदं वा वदति वद णिनि जीवभेदवादिनि जीवेश्वरयोः भेदवादिनि च नैयायिकादौ |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वैतवादिन्/ द्वैत--वादिन् m. " dualist " , assertor of dualism (a philosopher who asserts the 2 principles or the existence of the human soul as separate from the Supreme Being) L. (See. अ-द्व्).