सामग्री पर जाएँ

द्वैधम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्वैधम्, व्य, (द्वि + “संख्याया विधार्थे धा ।” ५ । ३ । ४२ । इति धा । “द्वित्र्योश्च धमुञ् ।” ५ । ३ । ४५ । इति धा इत्यस्य धमुञ् ।) द्विप्रकारम् । इति व्याकरणम् ॥ (यथा, हरिवंशे । १ । ३० । “तदण्डमकरोद्द्वैधं दिवं भुवमथापि च ॥” क्ली, “धमुञन्तात् स्वार्थे डदर्शनम् ।” इति वार्त्ति- कोक्त्या डः । राज्ञां षड्गुणानामन्यतमः । इत्य- मरः । २ । ८ । १८ ॥) एकेन सन्धिरपरेण विग्रहः इति द्वौ प्रकारौ द्वैधं निपातितम् । इत्यमरटीकायां भरतः ॥ (तच्च द्विविधम् । यथा, मनुः । ७ । १६७ । “बलस्य स्वामिनश्चैव स्थितिः कार्य्यार्थसिद्धये । द्विविधं कीर्त्तते द्वैधं षाड्गुण्यगुणवेदिभिः ॥”) विवादः । इति त्रिकाण्डशेषः ॥ (द्विप्रकारम् । यथा, मनुः । ८ । ७३ । “बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः । समेषु तु गुणोत्कृष्टान् गुणद्वैधे द्विजोत्तमान् ॥” त्रि । यथा, “पथि द्वेधानि तृणानि ।” इति सिद्धान्तकौमुदी ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्वैधम्¦ अव्य॰ द्वि + प्रकारे घमुञ्। प्रकारद्वये एकेन सन्धि-रपरेण बिग्रह इत्येवं प्रकारद्वयमित्यादि।
“श्रुतिद्वैधंयत्र तु स्यात्तत्र धर्मावुभौ स्मृतौ” मनुः।
“बलस्य स्वामि-नश्चैव स्थितिः कार्य्यार्थसिद्धये। द्विविधं कीर्त्त्यते द्वैधं षाड्-गुण्यगुणवेदिभिः” मनुः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्वैधम्¦ ind. In two ways. E. द्वि, and धमुञ् aff.

"https://sa.wiktionary.org/w/index.php?title=द्वैधम्&oldid=323225" इत्यस्माद् प्रतिप्राप्तम्