द्वैपः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वैपः, पुं, (द्वीपिनो विकारः द्वैपम् । द्वीप + “प्राणि- रजतादिभ्योऽञ् ।” ४ । ३ । १५४ । इति अञ् । तेन परिवृतः । “द्वैपवैयाघ्रादञ् ।” ४ । २ । १२ । इत्यञ् ।) द्वीपिचर्म्मावृतरथः । इत्यमरः । २ । ८ । ५३ ॥ द्वीपसम्बन्धिनि व्याघ्रचर्म्मसम्ब- न्धिनि च त्रि ॥ (यथा, सुश्रुते चिकित्सित- स्थाने ९ अध्याये । “द्वैपं दग्धं चर्म्म मातङ्गजं वा भिन्ने स्फोटे तैलयुक्तं प्रलेपः ॥”)
