द्वैपायनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वैपायनः, पुं, (द्वीपं अयनं उत्पत्तिस्थानं यस्य । स एव । स्वार्थे प्रज्ञादित्वात् वा अण् ।) व्यासः । इति हेमचन्द्रः । ३ । ५११ ॥ (सनिरुक्तिरस्य जन्मकथा यथा महाभारते । १ । ६३ । ८३ -- ८५ । “इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तम् । पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ॥ जज्ञे च यमुनाद्वीपे पाराशर्य्यः स वीर्य्यवान् । स मातरमनुज्ञाप्य तपस्येव मनो दधे ॥ स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ॥ एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् । न्यस्तो द्वीपे स यद्बालस्तस्माद्द्वैपायनः स्मृतः ॥” ह्रदविशेषः । अत्र दुर्य्योधनः पाण्डवभयात् आत्मानं स्तम्भयित्वा स्थितः । यथा, महा- भारते । ९ । ३१ । २ । “आसाद्य च कुरुश्रेष्ठ ! तदा द्वैपायनं ह्रदम् । स्तम्भितं धार्त्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् । वासुदेवमिदं वाक्यमब्रवीत् कुरुनन्दनः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वैपायनः [dvaipāyanḥ], [द्वीपः अयनं जन्मभूमिर्यस्य स द्वीपायनः, स्वार्थे-अण्]
'The island-born, N. of Vyāsa; उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः Ki.3.1.
N. of the sage Durvāsas; L. D. B.
