द्वैमातुरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
द्वैमातुरः, पुं, (द्वयोर्मात्रोरपत्यम् । द्विमातृ + “मातुरुत्संख्यासंभद्रपूर्ब्बायाः ।” ४ । १ । ११५ । इति अण् उत्त्वञ्च ।) गणेशः । इत्यमरः । १ । १ । ४० ॥ (अस्य द्विमातृत्वकथा स्कन्दपुराणे गणेशखण्डे उक्ता यथा, -- “आविर्भविष्ये सदने वरेण्यस्य महीपतेः । त्रैलोक्यरक्षणार्थाय विघ्नस्यास्य प्रशान्तये । पालनाय स्वभक्तानां साधुत्राणाय भूसुराः ॥ शिव उवाच । इत्युक्त्रा पुष्पकागर्भं प्रविवेश तदैव सः । आगते नवमे मासि प्रासूत पुष्पका शिशुम् ॥ चतुर्बाहुमिभास्यञ्च दन्तुरं सुन्दरेक्षणम् । आयुधानि च चत्वारि बिभ्रतं तेजसान्वितम् ॥ दृष्ट्वा सा क्रन्दनं चक्रेऽरिष्टमेतत् किमागतम् । श्रुत्वा चाक्रन्दनं तस्या वरेण्यः सगणो ययौ ॥ ददर्श बालकं सोऽपि विस्मितः सह तैर्गणैः । उवाच सेवकान् राजा त्यजतैनं सरोवरे ॥ शिशुमादाय ते याताः पार्श्वस्यैवाश्रमे शुभे । कासारे तं शिशुं त्यक्त्रा ययुः सर्वे निजं पुरम् ॥ अपरस्मिन् दिने पार्श्वमुनिः स्नानाय चागतः । तदैव ददृशे तेन बालकोऽद्भुतदर्शनः ॥ आश्चर्यमकरोत्तत्र भयभीतस्तथाभवत् । आश्रमे केन मे त्यक्तमरिष्टसुखदायिनीम् ॥ तपसा नु फलं दातुमीदृशीं धृतवांस्तनुम् । रक्षितुं सर्व्वलोकानां परमात्मा निजेच्छया ॥ सुन्दरो बालकः केन त्यक्तोऽयमीदृशो बहिः । नीत्वा स्वमाश्रमं चैनं पालयिष्ये प्रयत्नतः ॥ इत्युक्त्रा जगृहे बालमालिलिङ्ग मुदा मुनिः । तमानीतं मुनेः पत्नी ददर्श दीपवत्सला । उवाच निजभर्त्तारं सुप्रसन्नाननाम्बुजा ॥ दीपवत्सलोवाच । किमानीतं महत् स्वामिन् भृशमाश्चर्यकारकम् । इदं वैनायकं रूपं ममाभाति द्विजर्षभ ! ॥ इदमेव श्रियः स्थानं इदमेव तपःफलम् । इदमेव परं ब्रह्म योगिध्येयं सनातनम् । इदमेव परं तेज आदित्ये यदधिष्ठितम् । इदमेव हि वेदान्ता नेति नेति प्रचक्षते ॥ शिव उवाच । इत्युक्त्रा हर्षसम्पन्ना भर्तुरादाय बालकम् । स्तनपानं ददौ तस्मै ततः सा दीपवत्सला । द्वितीयाचन्द्रवद्बालो वृद्धिं यातो दिने दिने ॥”) जरासन्धः । इति मेदिनी । रे, २६८ ॥ (अस्य द्विमातृत्वकारणं जरासन्धशब्दे द्रष्टव्यम् ॥) द्विमातृजे, त्रि । इति हेमचन्द्रः । ३ । २१० ॥ (यथा, राजतरङ्गिण्याम् । ४ । ३५५ । “भिन्नशीला तयोर्भात्रोर्धीर्द्वैमातुरयोः पुनः ॥”)
