सामग्री पर जाएँ

द्व्यङ्गुलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

द्व्यङ्गुलम्, त्रि, (द्वे अङ्गुली प्रमाणमस्य । “तत्- पुरुषस्याङ्गुलेरिति ।” ५ । ४ । ८६ । इति अच् ।) अङ्गुलिद्वयपरिमितम् । यथा, ज्योतिषतत्त्वे । “अकाङ्गुलाथ सूच्यग्रा काष्ठी द्व्यङ्गुलमूलिका । शङ्कुच्छाया भवेत्तत्र तच्छायां परिकल्पयेत् ॥” द्वयोरङ्गुल्योः समाहारः इति वाक्ये अङ्गुलि- द्वयमात्रे, क्ली । इति मुग्धबोधम् ॥ (द्वे अङ्गुली यस्य इति विग्रहे । “अङ्गुलेर्दारुणि ।” ५ । ४ । ११४ । इति षच् । द्ब्यङ्गुलं दारु ॥ इति व्याक- रणम् ॥)

"https://sa.wiktionary.org/w/index.php?title=द्व्यङ्गुलम्&oldid=142177" इत्यस्माद् प्रतिप्राप्तम्