धनेश्वरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धनेश्वरः, पुं, (धनानामीश्वरः ।) कुबेरः । इति हेमचन्द्रः । २ । १०४ ॥ (यथा, महाभारते । १ । २२८ । ३२ । “जगृहुः सर्व्वशस्त्राणि स्वानि स्वानि सुरास्तथा । कालदण्डं यमो राजन् ! गदाञ्चैव धनेश्वरः ॥” विष्णुः । यथा, तत्रैव । १३ । १४९ । ६३ । “वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥” मुग्धबोधप्रणेतुर्वोपदेवस्य गुरुः । यदुक्तम् । “विद्बद्धनेश्वरच्छात्रो भिषक्केशवनन्दनः । वोपदेवश्चकारेदं विप्रो वेदपदास्पदम् ॥”)
