धन्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धन्यः, पुं, (धनाय हितः । धन + यत् ।) अश्वकर्ण- वृक्षः । इति राजनिर्घण्टः ॥
धन्यः, त्रि, (धनाय हितः । धन + यत् ।) पुण्य- वान् । सुकृती । इत्यमरः । ३ । १ । ३ ॥ “स्वनामा पुरुषो धन्यः पितृनामा च मध्यमः । अधमो भ्रातृनामा च मातृनामाधमाधमः ॥” इति गोयीचन्द्रधृतपद्यम् ॥ धन्यत्वकथनं यथा, -- सनत्कुमार उवाच । “विस्तीर्णबालुकामध्ये कच्छपः शतयोजनः । भीतश्च कम्पितस्तत्र दृष्टो दुःखी च शुष्कितः ॥ निःसारितो राघवेण मीनेन च महात्मना । धन्योऽसीति मयोक्तश्च नाहं धन्य उवाच सः ॥ क्षीरोदसागरो धन्यो जन्तवो यत्र मद्बिधाः । भवान् धन्योऽसि क्षीरोद ! तेनोक्तो नाहमेव च ॥ धन्या वसुन्धरा देवी यत्रैव सप्त सागराः । धन्यासि वसुधेत्युक्ता नाहमेवेत्युवाच सा ॥ धन्योऽनन्तो ममाधारः कृष्णांशो नागराड्विभुः । धन्योऽसीत्युक्तः परमो धन्यो नाहमुवाच सः ॥ धन्यश्च भगवान् ब्रह्मा विधाता जगतामपि । धन्योऽसि तत्र धाता च धन्यो नाहमुवाच सः ॥ धन्यो महेश्वरो देवो योगीन्द्राणां गुरोर्गुरुः । धन्योऽसीत्युक्तः शम्भुश्च धन्यो नाहमुवाच सः ॥ धन्यो गणेश्वरो देवो देवानां प्रवरः परः । देवेषु धन्यो मान्योऽसीत्युक्तो गणपतिर्मया ॥ नाहं धन्यो मुनिश्रेष्ठ ! सस्मितश्चेत्युवाच सः । धन्या वेदाश्च चत्वारः कर्म्माणि यद्व्यवस्थया ॥ तस्माद्धन्याश्च ते वेदा गच्छ तत्र मनीषिणः । यूयं धन्याश्च मान्याश्चेत्युक्ता वेदा मया ततः ॥ ऊचुस्ते न वयं धन्या यज्ञसंघश्च साम्प्रतम् । वयं व्यवस्थाकर्त्तारो यज्ञौघः फलदः स्वयम् । तस्माद्धन्यः स एवापि गच्छ गच्छ महामुने ! ॥ धन्योऽमि यज्ञसं घोऽसीत्युक्तस्तत्र मया विभो ! । ऊचुस्ते न वयं धत्या घन्यं कर्म्म शुभं मुने ! ॥ शुभकर्म्मासि धन्यं त्वं नाहं धन्यमुवाच तत् । श्रीकृष्णः परमात्मा च धन्यो मान्यश्च निश्चितम् ॥ धन्योऽसीति मयोक्तश्च दक्षिणाभिः सहेति च । इत्युक्तो भगवताप्यत्र कथितं सर्व्वकारणम् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८७ अः ॥ (धनं लब्धा । धन + “धनगणं लब्धा ।” ४ । ४ । ८४ । इति यत् । धनलब्धा ॥ पुं, धनस्य निमित्तं संयोगो उत्पातो वा । “गोद्व्यचोऽसंख्या परि- माणाश्वादेर्यत् ।” ५ । १ । ३९ । इति यत् ॥)
