सामग्री पर जाएँ

धन्वी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धन्वी, [न्] त्रि, (धनुश्चापोऽस्त्यस्येति । व्रीह्या- दित्वात् इनिः ।) धनुर्धरः । इत्यमरः । २ । ८ । ६९ ॥ (यथा, कुमारे । ३ । १० । “कुर्य्यां हरस्यापि पिनाकपाणे- र्धैर्य्यच्युतिं के मम धन्विनोऽन्ये ॥”) विदग्धः । इति विश्वः ॥

धन्वी, [न्] पुं, (धन्वमस्त्यस्येति । धन्व + इनिः ।) दुरालभा । अर्ज्जुनवृक्षः । (अस्य पर्य्यायो यथा, -- “धन्वी धनञ्जयः पार्थो नदीजः ककुभोऽर्ज्जुनः ।” इति वैद्यकरत्नमालायाम् ॥) वकुलः । इति राजनिर्घण्टः ॥ पार्थः । इति विश्वः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । २२ । “ईश्वरो विक्रमो धन्वी मेधावी विक्रमः क्रमः ॥” महादेवः । यथा, तत्रैव । १३ । १७ । ४२ । “कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ॥” तामसमनोः पुत्त्रविशेषः । यथा, हरिवंशे । ७ । २४ । “तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः । तामसस्य मनोरेते दश पुत्त्रा महाबलाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=धन्वी&oldid=142317" इत्यस्माद् प्रतिप्राप्तम्