धमनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धमनः, पुं, (धम्यतेऽग्निरनेनेति । धम + करणे ल्युट् ।) नलः । इत्यमरः । २ । ४ । १६२ ॥ (अस्य पर्य्यायो यथा, -- “नलः पोटगलः शून्यमध्यश्च धमनस्तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ धमतीति । धम + ल्युः ।) भस्त्राध्मापके क्रूरे च त्रि । इति मेदिनी । ने, ७८ ॥
