धमनिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धमनिः, स्त्री, (धम्यते इति । धम + “अर्त्ति- शृधृधमीति ।” उणां २ । १०३ । इति अनिः ।) धमनी । इति शब्दरत्नावली ॥ (यथा, अथर्व्व- वेदे । ६ । ९० । २ । “यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः ॥” प्रह्रादभ्रातुर्ह्रादस्य पत्नी । सा तु वातापे- रिल्वलस्य च जननी । यथा, भागवते । ६ । १८ । १५ । “ह्रादस्य धमनिर्भार्य्यासूत वातापिरिल्वलम् ॥” धमतिर्गतिकर्म्मा । गत्यर्था बुद्ध्यर्थाः । गम्यते ज्ञायतेऽर्थोऽनया । ज्ञायते वा विद्बद्भिः साध्व- साधुविभागेन । यद्वा, ‘धमति’ इति वधकर्म्म- स्वपि पठ्यते धमति हन्त्यनया शापाक्रोशादि- रूपयेति । वाक् । शब्दः । इति निघण्टुः । १ । ११ ॥ यथा, ऋग्वेदे । २ । ११ । ८ । “दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन्नि ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धमनिः [dhamaniḥ] नी [nī], नी f.
A reed, blow-pipe; वेणुधमन्या प्रबोध्य Vaiśvadeva.
A tube or canal of the human body, tubular vessel, as a vein, a nerve, &c.
Throat, neck.
A speech.
Turmeric. -Comp. -संतत a. emaciated, lank.
