धरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धरः, पुं, (धरति पृथिवीमिति । धृ + अच् ।) पर्व्वतः । (यथा, माघे । ४ । १८ । “उत्कं धरं द्रष्टुमवेक्ष्य शौरिम् उत्कन्धरंदारुक इत्युवाच ॥”) कार्पासतूलकः । कूर्म्मराजः । वसुभेदः । इति मेदिनी । रे, ४८ ॥ (यथा, हरिवंशे । ३ । ३९ । “आपो ध्रुवश्च सोमश्च धरश्चैवानिलानलौ । प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥” महादेवः । यथा, महाभारते । १३ । १७ । १०३ । “धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥” विष्णुः । श्रीकृष्णः । यथा, तत्रैव । ६ । ६३ । ३३ । “सर्व्वशोकमयो नित्यः शास्ता धाता धरो ध्रुवः ॥” धारके, त्रि ॥ यथा, काकपक्षधरः ॥)
