धरणः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धरणः, पुं, (धृ + ल्युः ।) अद्रिपतिः । लोकः । स्तनः । धान्यम् । दिवाकरः । इति हेमचन्द्रः ॥ सेतुः । इति त्रिकाण्डशेषः ॥ (वैद्यकमानविशेषः । यथा, पूर्ब्बखण्डे प्रथमेऽध्याये शार्ङ्गधरेणोक्तम् । “माषैश्चतुर्भिः शाणः स्याद्धरणः सनिगद्यते ॥”)
