धरणीधरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धरणीधरः, पुं, (धरण्या धरः ।) विष्णुः । इति हेमचन्द्रः । २ । १३१ ॥ (यथा, महाभारते । १३ । १४९ । ३८ । “अहः सम्बर्त्तको वह्निरनिलो धरणीधरः ॥”) कच्छपः । इति राजनिर्घण्टः ॥ पर्व्वतः । यथा, “यो जातो धरणीधरेन्द्रतनयानाथाङ्घ्रिपाथोरुहा- सक्तः ।” इत्यादिगोपीनाथतर्काचार्य्यः ॥ (पृथिवी- धारके, त्रि । यथा, हरिवंशे । ५३ । ६८ । “देवानचोदयद् ब्रह्मा निग्रहार्थं सुरद्विषाम् । नरञ्चैव पुराणर्षिं शेषञ्च धरणीधरम् ॥”)
