सामग्री पर जाएँ

धरुणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धरुणः, पुं, (धरतीति । धृ + बाहुलकात् उनन् । “धृञ् धारणे । हेतुमति च इति णिच् । धारे- र्णिलुक् क्युन्प्रत्ययः । धारयति जगत् ।” इति देवराजयज्वा । १ । १२ । २४ ।) ब्रह्मा । स्वर्गः । नीरम् । (निघण्टुमते, क्ली । यथा, ऋग्वेदे । १० । ५ । ६ । “पथां विसर्गे धरुणेषु तस्थौ ॥”) सम्मतम् । इति मेदिनी । णे, ५५ ॥ (अग्निः । यथा, वाजसनेयसंहितायाम् । ८ । ५१ । “उपसृजन्धरुणं मात्रे धरुणो मातरं धयन् ॥” धारके, त्रि । यथा, ऋग्वेदे । १० । १११ । ४ । “दाधार यो धरुणं सत्यताता ॥” “सत्ये द्युलोके धरुणं धारकं बलं दाधार अधार- यत् ।” इति तद्भाष्ये सायनः ॥)

"https://sa.wiktionary.org/w/index.php?title=धरुणः&oldid=142364" इत्यस्माद् प्रतिप्राप्तम्