धर्मव्रत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धर्मव्रत¦ त्रि॰ धर्मे व्रतं संकल्पविशेषीयस्य।
१ धर्मरते।
२ धर्मस्यविश्वरूपाख्यपत्न्यां जातायां कन्यायां मरीचिकलत्रेस्त्री तत्कथा वायुपु॰
“आसीद्धर्मो महातेजाः सर्वविज्ञा-नपारगः। विश्वरूपा च तत्पत्नी भर्त्तृव्रतपरायणा। तस्यां धर्मात् समुत्पन्ना कन्या धर्मव्रता सती। सर्वलक्षण-सम्पन्ना लक्ष्मीरिव कुलाधिका” इत्युपक्रमे
“मरीचे-र्वचनं श्रुत्वा कन्या प्रोवाच तं मुनिम्। अहं धर्मव्रता-नाम धर्मपुत्री तपोन्विला। पतिव्रतार्थं विप्रेन्द्र! चरामिपरमं तपः। धर्मव्रतां मरीचिस्तामुवाच प्रीतिपूर्व-कम्। पतिव्रता दर्शनान्मे भविष्यसि शुभव्रते!। पति-व्रतेच्छया पृथ्वी विचरामि ह्यऽहर्निशम्। त्वञ्चेत् पति-व्रता जाता भजे त्वां भज मां वरम्। लोके न त्वादृशीकन्या मम तुल्यो न ते वरः। धर्मव्रते! धर्मपुत्नि! तस्मात्त्वं भज माधुना। धर्मव्रता मुनिं प्राह धर्मं याचय सु-व्रत! तत् श्रुत्वा धर्ममगमन्मुनिं धर्मोददर्श ह। तेजःपुञ्जवरं नत्वा ह्यासनार्घ्यादिनार्च्चयत्। किमर्थमागतः पृष्टोमरीचिर्धर्ममव्रवीत्। कन्यार्थं भ्रमता पृथ्वीं दृष्टा तेकन्यका वरा। मह्यं कन्याञ्च तां देहि श्रेयस्तव भवि-ष्यति। अर्घ्यादिना समभ्यर्च्च्य धर्मः प्राचेतसेरितम्। धर्मव्रतां समानीय दत्तवांस्तां मरीचये”। धर्मस्यव्रतम्। हेमाद्रिव्र॰ उक्ते
३ व्रतभेदे न॰ व्रतशब्दे दृश्यम्।
