सामग्री पर जाएँ

धर्म्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्मः, पुं क्ली, (धरति लोकान् ध्रियते पुण्यात्मभि- रिति वा । धृ + “अर्त्तिस्तुहुस्रिति ।” उणां १ । १३९ । इति मन् ।) शुभादृष्टम् । (यथा, हितोदेशे । १ । ५९ । “एक एव सुहृद्धर्म्मो निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्व्वमन्यत्तु गच्छति ॥”) तत्पर्य्यायः । पुण्यम् २ श्रेयः ३ सुकृतम् ४ वृषः ५ । इत्यमरः । १ । ४ । २४ ॥ न्यायः । स्वभावः । आचारः । उपमा । क्रतुः । (यथा, महाभारते । १४ । ८८ । २१ । “कृत्वा प्रवर्ग्यं धर्म्माख्यं यथावत् द्विजसत्तमाः । चक्रुस्ते विधिवद्राजंस्तथैवाभिषवं द्बिजाः ॥”) अहिंसा । उपनिषत् । इति मेदिनी । से, १६ । दानादिके, क्ली । इति हेमचन्द्रः ॥ (यथा, योगसारे । “प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा । स्मरणञ्चैव योगेऽस्मिन् पञ्च धर्म्माः प्रकी- र्त्तिताः ॥”)

धर्म्मः, पुं, (धृ + मन् ।) धनुः । यमः । सोमपः । इति मेदिनी । मे, १६ ॥ सत्सङ्गः । अर्हन् । इति हेमचन्द्रः । ६ । १५ ॥ देवताविशेषः । स ब्रह्मणो दक्षिणस्तनाज्जातः । (यथा, मत्स्यपुराणे । ३ । १० । धनाधिपत्यं भोगानि स्वाध्यायं शङ्करार्च्चनम् । अहङ्कारमशौचञ्च धर्म्मोऽयं गुह्यकेष्विति ॥ परदाराभिमर्षित्वं परार्थेऽपि च लोलुपा । स्वाध्यायस्त्र्यम्बके भक्तिर्धर्म्मोऽयं राक्षसः स्मृतः ॥ अविवेकताथाज्ञानं शौचहानिरसत्यता । पिशाचानामयं धर्म्मः सदा चामिषगृध्नुता ॥ योनयस्तु द्वादशैताः सह धर्म्माश्च राक्षस ! । ब्रह्मणा कथिताः पुण्या द्वादशैव गतिप्रदाः ॥” इति वामनपुराणे ११ अध्यायः ॥ धर्म्माधर्म्मलक्षणम् । यथा, -- “अहिंसालक्षणो धर्म्मो हिंसा चाधर्म्मलक्षणा ॥” इति महाभारतम् ॥ “वेदप्रणिहितो धर्म्मो ह्यधर्म्मस्तद्विर्य्ययः ॥” इति श्रीभागवतम् ॥ “विहितक्रियया साध्यो धर्म्मः पुंसां गुणो मतः । प्रतिषिद्धक्रियासाध्यः स गुणोऽधर्म्म उच्यते ॥” इति धर्म्मदीपिका ॥ (दुह्यवंशीयनृपविशेषः । यथा, भागवते । ९ । २३ । १४ । “द्रुह्योस्तु तनयो वभ्रुः सेतुस्तस्यात्मजस्ततः । आरब्दस्तस्य गान्धारस्तस्य धर्म्मस्ततो धृतः ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्म¦ पु॰ न॰ अर्द्धर्च्चा॰ ध्रियते लोकोऽनेन धरति लोक वा धृ--मन्।
“चोदनालक्षणोऽर्थोधर्मः” जै॰ सूत्रलक्षिते पदार्थे तत्र धर्म-शब्दस्य यागादिपरत्वम् भाष्यसम्मतमन्यमते स्वर्गसाधना-दृष्टभेदपरत्वं तथाहि
“अथातो धर्मजिज्ञासेति” सूत्रमाष्ये
“धर्माय जिज्ञासा धर्मजिज्ञासा, सा हि तस्य ज्ञातु-मिच्छा। स कथं जिज्ञासितव्यः? को धर्मः, कथं-लक्षणः, कान्यस्य साधनानि कानि साधनाभासानि, किं-परश्चेति। तत्र को धर्मः, कथंलक्षणः--इति एके-नैव सूत्रेण व्याख्यातं--‘ चोदनालक्षणोऽर्थो धर्मः’ --इति। कानि अस्य साधनानि, कानि साधनाभासानि,किंपरश्चेति शेषलक्षणेन व्याख्यातं, क्व पुरुषपरत्वं क्ववा पुरुषो गुणभूतः?--इत्येतासां प्रतिज्ञानां पिण्डस्यै-तत् सूत्रम्‘ अथातोधर्मजिज्ञासा’ --इति। धर्मः[Page3850-b+ 38] प्रसिद्धो वा स्यात्, अप्रसिद्धो वा? स चेत् प्रसिद्धः, नजिज्ञासितव्यः; अथाप्रसिद्धः, नतरां; तदेतदनर्थकंघर्मजिज्ञासाप्रकरणं, अथवाऽर्थवत्?”। धर्मं प्रतिहि विप्रतिपन्ना बहुविदः,--केचिदन्यं धर्ममाहुः,केचिदन्यं, सोऽयमविचार्य्यप्रवर्त्तमानः कञ्चिदेवोपाददानोविहन्येतार्थात् अनर्थं च ऋच्छेत्, तस्माद्धर्मो जिज्ञा-सितव्य इति, स हि निःश्रेयसेन पुरुषं संयुनक्तीति प्रति-जानीमहे” भा॰
“तदभिधीयते चोदनालक्षणोऽर्थोधर्म।

२ सू॰
“चोदनां--इति क्रियायाः प्रवर्त्तकंवचनमाहुः, आचार्य्यचोदितः करोतीति हिदृश्यते। लक्ष्यते येन तल्लक्षणं धूमो लक्षणमग्नेरितिहि वदन्ति। तया यो लक्ष्यते, सोऽर्थः पुरुषं निःश्रे-यसेन संयुनक्तीति प्रतिजानीमहे। चोदना हि भूतं,भवन्त, भावष्यन्तं, सूक्ष्म, व्यवहितं, विप्रकृष्टमित्येवंजा-तीयकमर्थं शक्नोत्यवगमयितुं, नान्यत् किञ्चनेन्द्रियम्,” य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते। कथमव-गम्यतां?। यो हि यागमनुतिष्ठति, तं‘ धार्मिकः’ --इति समाचक्षते, यश्च यस्य कर्त्ता स तेन व्यपदि-श्यते, यथा पाचकः, लावक इति। तेन यः पुरुषंनिःश्रेयसेन संयुनक्ति, स धर्मशब्दनोच्यते। न केवलंलोके, वेदेऽपि‘ यज्ञेन यज्ञमयजन्त देबाः, तानि धर्माणिप्रथमान्यासन्’ --इति यजतिशब्दवाच्यमेव धर्मं समाम-नन्ति। उभयमिह चोदनया लक्ष्यते, अर्थोऽनर्थश्चइति, कोऽर्थः? यो निःश्रेयसाय, ज्योतिष्टमादिः। कोऽनर्थः? यः प्रत्यवायाय, श्येनो, वज्रः, इषुरि-त्येवमादिः। कथं पुनरसावनर्थ?। हिसा हि सा,सा मा भूत् इति अर्थग्रहणम्। ” शावरभा{??}यम्एतन्मतानुसारेण लौगाक्षिभास्करेणोक्तं यथा
“अथ कोधर्मः किं तस्य लक्षणमिति चेदुच्यते। यागादिरेवधर्मः। तल्लक्षणस्तु वेदप्रतिपाद्यप्रयोजनवदर्थो धर्मः। प्रयोजनेऽतिव्याप्तिवारणाय प्रयोजनवदिति। भोजना-दावतिव्याप्तिवारणाय वेदप्रतिपाद्येति। अनर्थफलक-त्वादनर्थभूते श्येनयागादावतिव्याप्तिवारणायार्थ इतिन च चोदनालक्षणोर्थो धर्म इति सौत्रधर्मलक्षण-विरोधः चोदनाशब्दस्य तत्र विधिरूपवेदैकदेश-परत्वादिति वाच्यम्। सर्ववेदस्य तात्पर्य्येन धर्मप्रति-पादकत्वात्। स च यागादिः।
“यजेत स्वर्गकामः” इत्यादि वाक्येन स्वर्गमुद्दिश्य पुरुषं प्रति विधीयते”। [Page3851-a+ 38] अन्यमते तु अदृष्टविशेषस्यैव धर्मत्वं तत्त्वबोधिन्यां तदु-भयमतं संक्षिप्य दर्शितं यथा
“चोदनालक्षणोऽर्थो धर्मः” इति। चोदनैव लक्षणं प्रमाणंयस्य तादृशो योऽर्थः स धर्मः चोदना प्रवर्त्तको वेदोविधिरूपः। चुद प्रेरणे इत्यस्माच्चौरादिकधातोः वेदमात्र-स्यैवेयं परिमाषेत्यपरे। तथा च बेदैकप्रमाणगम्योऽर्थःपुण्यनामाऽदृष्टविशेषः धर्मः कार्य्यापूर्वापरनामा तथा चतार्किकाः विहितक्रियया साध्यो धर्मः पुंसो गुणो मतः। प्रतिषिद्धक्रियासाध्यः स गुणोऽधर्म उच्यते”। भविष्ये
“धर्मः श्रेयः समुद्दिष्टं श्रेयोऽभ्युदयसाधनम्”। तैत्ति-रीयश्रुतिरपि
“धर्मो विश्वस्य जगतः प्रतिष्ठा लोकेधर्मिष्ठं प्रजा उपसर्पन्ति धर्मेण पापमपनुदतीति” प्रशंसा-ममिदधती अभ्युदयसाधनं धर्म इति प्रतिपादयति। भाष्यमपि
“कोऽर्थो योऽभ्युदयाय”। गुरुमते विधेरपूर्वेशक्त्याऽपूर्वस्य बिधिवाच्यत्वात वेदगम्यत्वं सूपपन्नमेव। अगृहीतग्राहित्वस्य प्रामाण्यरूपत्वाद्वेदमात्रलभ्यत्वम-पूर्वस्य। अन्येषां मते तु यागादेरिष्टसाधनत्वान्यथानुप-पत्त्या कल्प्यत्वेऽप्यपूर्वस्य, वेदस्य प्रवर्त्तकत्वान्यथानुपपत्त्याकल्पनीयत्वेन वेदमूलकत्वात् वेदप्रमाणकत्वम्। भट्टमतेतु चोदना प्रेरणा फलभावना लिङाद्यर्थाभिधारूपातया च केन कथमित्याकाङ्क्षामुत्थाप्य लक्ष्यते आश्रीयतेकर्त्तव्यत्वेन बोध्यते यः करणीभूतो धात्वर्थयागादिःस धर्म इत्यर्थः तथाच विश्वामित्रः
“यमार्य्याः क्रियमाणंहि शंसन्त्यागमवेदिनः। स धर्मोयं विगर्हन्ति तम-धर्मं प्रचक्षते” इति। अतएव
“चोदनागम्योग्निहोत्रादि-र्धर्मो नातल्लक्षणचैत्यवन्दनादिरिति” शास्त्रदीपिका। तत्रचोदनागम्यो वेदबोधितकर्त्तव्यताक इत्यर्थः। अत्र मतेधर्मशब्दो निरूढलाक्षणिकः अदृष्ट एव तस्य शक्तेः
“स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः” इत्युक्त्वा
“शस्त-ञ्चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च” इत्यमरोक्तेःद्रव्ये तज्जनके घर्मिणि त्रिषु बाच्यलिङ्गमित्यर्थः। अत-एव भट्टवार्त्तिकं
“द्रव्यक्रियागुणादीनां धर्मत्वं स्थाप-यिष्यते। तेषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मताश्रेयःसाधनता ह्येषां नित्यं वेदात् प्रतीयते। ताद्रूप्येणच धर्मत्वं तस्मान्नेन्द्रियगोचाः” इति। यद्यपि पुण्यनामा-दृष्टविशेष एव धर्मस्तदर्थस्तथापि द्रव्यक्रियादीनामपिधर्मत्वं व्यवस्यापयिष्यते तेषां धर्मजनकतया कारणेकार्य्यत्वो पचारात् तेषु धर्मव्यपदेश इति भावः। न[Page3851-b+ 38] ताद्रूप्येण न स्वरूपतः, अपि तु धर्मजनकतयेति शेषः। धर्मजनकत्वे मानमाह श्रेय इति
“श्रेयोऽभ्युदयसाधनम्” उक्तभविष्यवचनात् तत्र साक्षात् स्वर्गादिसाधनमदृष्टंतत्साधनता यागादेरित्यर्थः ताद्रूप्येण स्वरूपतः। अत्रच वेदमात्रप्रमाणलब्धसत्ताकार्थत्वं लक्षणं गुणविशेषश्चस्वरूपं, द्वितीयमते वेदैकप्रमितकर्त्तव्यताकार्थत्वं लक्षणंद्रव्यक्रियागुणादयः स्वरूपम् उभयत्र वेदप्रामाण्यादेव-प्रामाण्यम्”। तद्भेदादिकं हेमाद्रिव्रतखण्डे उक्तं यथा भविष्यपु॰
“वर्णधर्मः स्मृतस्त्वेक आश्रमाणामतः परम्। वर्णा-श्रमस्तृतीयस्तु गौणोनैमित्तिकस्तथा। वर्णत्वमेकमा-श्रित्य यो धर्मः सम्प्रवर्त्तते। वर्णधर्मः

१ स उक्तस्तु यथो-पनयनं नृप। आश्रमञ्च समाश्रित्य यो धर्मः सम्प्रवर्त्तते। स खल्वाश्रमधर्मस्तु

२ भिक्षादण्डादिको यथा। वर्णत्वमा-श्रमत्वञ्च योऽधिकृत्य प्रवर्त्तते। स वर्णाश्रमधर्मस्तु

३ स्यान्मौञ्ची मेखला यथा। यो गुणेन प्रवर्त्तेत गुण-धर्मः

४ स उच्यते। यथा मूर्द्धाभिषिक्तस्य प्रजानां परि-पालनम्। निमित्तमेकमाश्रित्य यो धर्मः सम्प्रवर्तते। नैमित्तिकः

५ स विज्ञेयः प्रायश्चित्तविधिर्यथा”
“वर्णत्व-मेकमाश्रित्येति एकशब्दो वक्ष्यमाणोभयनिमित्तव्यावृत्ति-परः, वक्ष्यमाणधर्मभिन्नत्वात् अयं त्वाश्रमत्वमनपेक्ष्य वर्ण-त्वनिमित्तकोऽतः सत्यामप्युपनयनस्याष्टवर्षत्वाद्यपेक्षायांनैकशब्दविरोध इति। अयवा वीप्सायामेकशब्दः तत-श्चैकैकं वर्णत्वमुद्दिश्य यो विधीयते स वर्णधर्म इतिअतएवाष्टवर्षादिवाक्यैरनेकवर्णत्वोद्देशेन विधीयमानमुप-नयनं दृष्टान्तीकृतम्। निमित्तमेकमाश्रित्येत्यत्र प्राय-श्चित्तस्य नित्यकाम्यवैधर्म्यमात्रेण नैमित्तिकत्वं न तुराहुदर्शननिमित्तस्नानादिवदकरणजनितदोषपरिहारार्थतया, निषिद्धकर्मकृताधर्मपरिहारार्थतयैव तद्विधानो-पपत्तेः। न च जातेष्टिवदुभयार्थत्वं, तत्र फलनिमित्तयोरुभयोरुपात्तत्वान्न त्विह तथेति। साधारणधर्मस्तु महा-भारते।
“श्राद्धकर्म तपश्चैव सत्यमक्रोध एव च। स्वेषुदारेषु सन्तोषः शौचं विद्यानसूयिता। आत्मज्ञानंतितिक्षा च धर्मः साधारणी

६ नृप!” चातुर्वण्यस्येतिशेषः।
“तपश्चान्द्रायणादि। यदाह देवलः
“व्रतो-पवासनियमैः शरीरोत्तापनं तपः”। व्रतशब्दोऽत्र स्नानदानजपहोमपूजादिपरः। एतेन व्रतखण्डप्रतिपा-द्यानां धर्माणामपि साधारणत्व सूचितम्। आत्म-[Page3852-a+ 38] ज्ञानमित्यनेन मोक्षखण्डप्रतिपाद्यानामपि धर्माणांसाधारणत्वम्। न च शूद्राधिकरणन्यायेन शूद्राणांविद्यायामनधिकार इति कथं मोक्षधर्माणां साधा-रणत्वमिति वाच्यम् तेषामुपनयनाभावेनाध्ययनासम्भ-वाद्वेदवाक्यविचार एवानधिकारः न पुनरवैदिके
“श्रा-वयेच्चतुरोवर्णानिति” शूद्राणामपि पञ्चयज्ञादिवत् पुराण-स्मृतिप्रतिपाद्यविद्योपदेशदर्शनात्। ननु तथापि कथंवेदान्तवाक्यविचारजनितज्ञानाभावे शूद्राणां मोक्षधर्मा-धिकार इति चेत् मैवम् मोक्षसाधनस्य ज्ञानस्य तदे-कसाध्यत्वसिद्धेः, तथा च श्रुतिः
“तरति शोकमात्म-वित् ब्रह्म वेद ब्रह्मैव भवति ब्रह्मविदाप्नोति परं वि-द्ययामृतत्वमश्नुते” इति, मोक्षस्यात्मज्ञानसाध्यतां वदति। आत्मज्ञानस्य च पुराणादिवचननिचयविचारपरिचया-दप्युपपत्तेः श्रोतव्य इत्यादिवाक्यानां तु विचारनिय-मविधित्वानङ्गीकारात् अङ्गीकारे वा तस्य द्विजाति-नियततया
“श्रावयेच्चतुरोवर्णानित्यादिपुराणवचनविषय-विधेरप्यध्ययनविधिवद्विचारपर्य्यन्ततास्तु ततश्च यथाद्रव्यसाध्यत्वाविशेषेऽपि क्रतूनान्तत्तद्वर्णबिहितोपायनिय-मार्जितद्रव्यसाध्यत्वम् एवमात्मज्ञानसाध्यत्वाविशेषेऽपिमोक्षस्य तदुपायविशेषजनितज्ञानसाध्यत्वमिति सर्वमन-वद्यम्” तथा चोक्तं भागवते
“स्त्रीशूद्रद्विजबन्धूनांत्रयी न श्रुतिगोचरः। इति भारतमाख्यानं मुनिनाकृपया कृतम्”। महाभारतेऽपि
“मामुपाश्रित्य तु कौ-न्तेय! येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथाशूद्रास्तेऽपि यान्ति परां गतिम्”। विष्णुः।
“क्षमासत्य दमः शौच दानमिन्द्रियसंयमः। अहिंसा गुरुशु-श्रूषा तीर्थानुसरणं दया। आर्जवं लोभशून्यत्वं देव,ब्राह्मणपूजनम्। अनभ्यसूया च तथा घर्मः सा-मान्य उच्यते इति”। ब्रह्मवैवर्त्ते
“विद्या, दया, दमः,शौचं, सत्यमस्तेयता तपः। जितेन्द्रियत्वमक्रोधोलज्जा धर्मः इति स्मृतिः”। विष्णुधर्मोत्तरे
“तस्यद्वाराणि यजनं तपोदानं दया क्षमा। ब्रह्मचर्य्यंतथा सत्यं तीर्थानुसरणं शुभम्। स्वाध्यायसेबा सा-धूनां सहवासः सुरार्च्चनम्। गुरूणां चैव शुश्रूषाब्राह्मणानाञ्च पूजनम्। इन्द्रियाणां यमश्चैव ब्रह्मचर्य्य-ममत्सरम्। गङ्गास्रानं शिबो देवो विप्रपूजात्मचिन्त-वम्। ध्यानं नारायणस्यैतत् संक्षेपाद्धर्मलक्षणम्”
“दा-नमित्यनेन दानखण्डप्रतिपाद्यानाम्, तीर्थानुसरणमि-[Page3852-b+ 38] त्यनेनापि तीर्थखण्डप्रतिपाद्यानाम् देवब्राह्मणपूजनमित्यनेनापि परिशेषखण्डप्रतिपाद्यानाम् देवतापूजना-दिधर्माणां साधारणत्वम्”। वृहस्पतिः
“दया, क्षमा-ऽनसूया, च शौचानायासमङ्गलम्। अकार्पण्य,मस्पृहत्व सर्वसाधारणानि च। परे वा बन्धुवर्गे वामित्रे द्वेष्टरि वा सदा। आपन्ने रक्षितव्यं तु दयैषापरिकीर्त्तिता। बाह्ये वाध्यात्मिके चैव दुःखे चौत्पा-तिके क्वचित्। न कुप्यति न वा हन्ति सा क्षमा परि-कीर्त्तिता। न गुणान् गुणिनो हन्ति स्तौति मन्दगुणा-नपि। नान्यदोषेषु रमते साऽनसूया प्रकीर्त्तिता। अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः। स्वधर्मे च व्यव-स्थानं शौचमेतत् प्रकीर्त्तितम्। शरीरं पीद्ध्यते येनसुशुभेनापि कर्मणा। अत्यन्तं तन्न कुर्वीत अनायासः सउच्यते। प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम्। एतद्धिमङ्गलं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः। स्तोकादप्युप-कर्त्तव्यमदीनेनान्तरात्मना। अहन्यहनि यत्किञ्चित्अकार्पण्यं हि तत् स्मृतम्। यथोपपन्ने सन्तोषःकर्त्तव्योऽत्यल्पवस्तुनि। परस्य चिन्तयन्नर्थं साऽस्पृहापरिकीर्त्तिता”। तदेवं निरूपिताः षट्प्रकारा धर्माः। अन्यथाऽपि तद्भेदस्तत्रैवोक्तो यथाविश्वामित्रः
“यमार्य्याः क्रियमाणं हि शंसन्त्याग-मवेदिनः। स धर्मो यं विगर्हन्ति तमधर्मं प्रचक्षते”। भृनुः
“प्रवृत्तञ्च निवृत्तञ्च द्विविधं कर्म वैदिकम्। स-र्गादौ सृजता सृष्टं ब्रह्मणा वेदरूपिणा। प्रवृत्तसं-ज्ञको धर्मो गुणतस्त्रिविधोमयेत्। सात्विको राजसश्चैवतामसश्चेति भेदतः। काम्यबुद्ध्या च यत् कर्म मोक्षेऽबिफलवर्जितम्। क्रियते द्विज! कर्मेह तत् सात्विक-मुदाहृतम्। मोक्षायेदं करोमोति सङ्कल्प्य क्रियते तुयत्। तत् कर्म राजसं ज्ञेयं न साक्षान्मोक्षकृद्भवेत्। कार्य्यबुद्ध्यानपेक्षं यत् कर्मविध्यनपेक्षया। क्रियते द्विज-वर्य्येह तत्तामसमुदाहृतम्”। धर्म्माधिष्ठातृदेवस्योत्पत्तिः तत्र खण्डे वराहपु॰ दर्शितायथा
“अथोत्पत्ति प्रवक्ष्यामि धर्मस्य महतीं नृप!। माहात्म्येन समायुक्त विस्तरेण नराधिप!। पूब्रह्माव्ययः शुद्धः परादपरसंज्ञितः। स सिसृक्षुःप्रजास्त्वादौ पालनं तास्वचिन्तयत्। तस्य चिन्तयत-स्त्वङ्गाद्दक्षिणाख्यात् सकुण्डलः। प्रादुर्बभूव पुरुषःश्वेतमाल्यानुलेपनः। तं दृदोवाच भगर्वाश्चतु{??}दं वृषाक-[Page3853-a+ 38] तिम्। पालयेमाः प्रजाः पुत्र! त्वं ज्येष्ठो जगतो भव। इत्युक्तः स समुत्तस्थौ चतुष्पादः कृते युगे। त्रेतायांस त्रिभिः पादैर्द्वाभ्यां वै द्वापरेऽभवत्। कलायेकेन पा-देन प्रजाः पालयते विभुः। षड्भेदो ब्राह्मणानां सत्रेधा क्षत्रे व्यवस्थितः। द्वेधा वैश्येषु शूद्रेषु त्वेकधाजगतः प्रभुः। रसातलेषु सर्वेषु द्वापरेषु स्वयम्भुवः। चतुःशृङ्गस्त्रिपाच्चैव द्विशिराः सप्तहस्तवान्। त्रिधैवबद्धो विप्राणां मुखगः पालयन् प्रजाः”। भाग॰

४ ।

१ । अ॰। तत्पत्नीपुत्रादिभेदा दर्शिता यथा
“त्रयोदशाऽदाद्धर्माय तथैकामग्नये विभुः। पितृभ्यएकां युक्तेभ्यो भवायैकां भवच्छिदे। श्रद्धा मैत्री दयाशान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः। बुद्धिर्मेधा तितिक्षाह्रीर्मूर्त्तिर्धर्मस्य पत्नयः। श्रद्धाऽसूत धृतिम् मैत्री प्रसाद-मभयं दया। शान्तिः सुखं मुदं तुष्टिः णयं पुष्टिरसू-यत। योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत। मेघास्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम्। मूर्त्तिःसर्वगुणोपेतौ नरनारायणावृषी। ययोर्जन्मन्यदोविश्वमभ्य-नन्दत् सुनिर्वृतम्”। वामनपुरा॰ अन्येऽपि तस्य भार्य्यापुत्रा उक्ता यथा
“धर्मस्य भार्य्याऽहिंसाख्या तस्यां पुत्रचतुष्टयम। सम्प्राप्तंमुनिशार्दूल! योगशास्त्रविचारकम। ज्येष्ठः सनत्-कुमारोऽभूत् द्वितीयश्च सनातनः। तृतीयः सनको नामचतुर्थश्च सनन्दनः। साङ्ख्यवेत्तारमपरं कपिलं वोढु-मासुरिम्। दृष्ट्वा पञ्चशिखं श्रेष्ठं योनयुक्तं तपोनिधिम्। ज्ञानयोगं न ते दद्युर्जायां सोऽपि कनीय-साम्”। देवादिभेदेन धर्ममेदा वामनपु॰

११ अ॰उक्ता यथा
“किंलक्षणो भवेद्धर्मः किमाचरणसत्-क्रियः। यमाश्रित्य न सीदन्ति देवाद्यास्तु तदुच्यताम्ऋषय उचुः। देवानां परमो धर्मः सदा यज्ञादिकाःक्रियाः। स्वाध्यायवेदवेत्तृत्वं विष्णुपूजारतिः स्मृतिः

१ । दैत्यानां वाहुशालित्वं मात्सर्य्यं युद्धसत्क्रिया। विन्दनं नीतिशास्त्राणां हरभक्तिरुदाहृता

२ । सिद्धानामुदितो धर्मो योगयुक्तिरनुत्तमा। स्वाध्यायोब्रह्मविज्ञानं भक्तिर्द्वाभ्यामपि स्थिरा

३ । उत्कृष्टोपासनंज्ञेयं नृत्यवाद्येषु वादिता। सरस्वत्यां स्थिरा मक्ति-र्गान्धर्वो धर्म उच्यते

४ । विद्याधरत्वमतुलं विज्ञानं पौ-रुषे मतिः। विद्याधराणां धर्मोऽयं भवान्यां भक्तिरेवच

५ गान्ध विद्यावेदित्वं भक्तिः स्थाणौ तुक्का स्थिरा। [Page3853-b+ 38] कौशल्यं सर्वशिल्पेषु र्मः कैम्पुरुषः स्मृतः

६ । ब्रह्मचर्य्य-ममानित्वं योगार सरतिर्दृढा। सर्वत्र कामचारित्वंधर्मोऽयं पैतृकः{??}

७ । ब्रह्मचर्य्यं यताशित्वं जप्य-ज्ञानञ्च राक्षस! नियमोधर्मवेदित्वमार्षं धर्मं प्रच-क्षते

८ । स्वाध्याया व्रह्मचर्य्यञ्च दानं यजनमेव च। अकार्पण्यमनायासं दयाहिंसाक्षमादयः। जितन्द्रिय-त्वं शौचञ्च माङ्गल्यं भक्तिरुच्यते। शङ्करे भास्करेदेव्यां धर्मोऽयं मानव॰ स्मृतः

९ । धनाधिपत्यं भोगाश्चस्वाध्यायः शङ्कराच्चनम्। अहङ्कारमशौचञ्च धर्मोऽयंगुह्यकेष्विति

१० । परदाराभिमर्षित्वं परार्थेऽपि चलोलुपा। स्वाध्याय{??}बके भक्तिर्धर्मोऽयं राक्षसःस्मृतः

११ । अविवेकत{??}ऽज्ञानं शौचहानिरमत्यता। पिशाचानामयं धर्मः सदा चामिपगृध्नुता

१२ । योनयस्तुद्वादशैताः सहधर्माश्च राक्षस!। ब्रह्मणा कथिताःपुण्या द्वादशैव गतिप्रदाः”।

२ धनुषि

३ यमे

४ सोमपे च पु॰मेदि॰।

५ सत्सङ्गे

६ अर्हति जिने च पु॰ हेमच॰।

७ न्याये

८ स्वभावे

९ आचारे

१० उपमायां

११ क्रतौ

१२ अहिंसा-याम्।

१३ उपनिषदि मेदि॰ पु॰ न॰।

१४ आत्मनि तस्य सर्वस्यस्वस्मिन् धारणात्

१५ जीवे देहप्राणादेर्धारणात्

१६ षट्-कलप्रस्तावे प्रथमगुरुकेऽन्त्यलघुचतुष्टयके द्वादशभेदे।

१७ भाग्याख्ये लग्नेन्दुभ्यां नवमस्थाने तद्भावानयनं द्वादश-भावशब्दोक्तदिशा बोध्यम्। तत्र चिन्त्यपदार्था जन्मकालेतद्भावस्थग्रहयोगादिकफलं जातकपद्धतावुक्तं यथा
“विहाय भावान् सकलान् प्रयत्नाद्भाग्याभिध दैवविदाविचिन्त्यम्। भाग्यान्वितो ना यदि शीलविद्याः कुलंतदायुश्च भवेत् सुधन्यम्। लग्नाच्चन्द्रात् यद्भवेद{??}-संख्यं भाग्यस्थानं प्राक्तनैः कीर्त्तितं तत्। चिन्त्यो वीर्य्या-ढ्यात्तयोस्तत्पतिः कः कस्मिन् भावे कीदृशः कारकोवा। भाग्यालयं स्वामियुतेक्षितं चेत् स्वदेशतो भाग्य-विवृद्धिदं तत्। अन्येन दृष्टं त्वथ वा युतं चेदन्वलदेशे फलदानदक्षम्। भाम्यभे शुभखगा मिलिताः स्यु-राज्यदा न रिपुनीचगृहे चेत्। धर्मधान्यसुखवृद्धि-कराश्च स्वायुषः स्थिरधनस्य च वृद्ध्यै। नीचारि-संस्थाश्च न सौम्यदृष्टाः पापाश्च भाग्येन शुभप्रदाः स्युः। क्रूरा अपि स्वे भवने शुभाः स्युर्विशेषतः सद्ग्रहवीक्षिताश्चेत्। पूर्णचन्द्रसहितं शुभ

९ भं चेत् स्यात्प्रधानपुरुषः पुरुषोऽसौ। स्वेचरेक्षणसमागमयुक्तंसद्गुरोस्तु युतितोऽतिविशेषात्। स्वोच्चस्थिताः सर्वसभ{??}[Page3854-a+ 38] रेन्द्राः शुभाः शुभस्थानगता विदध्युः। नरं समृद्धंशुभदृष्टदेहा भूपं हतारिं सुशरीरकीर्त्तिम्। त्र्यादिखेचरयुतिश्च भाग्यभे भूपतिं हि जनयेत् बुधोनिता। शौरिभूसुतगुरूनिता नरं कामकीर्त्तिधनसौख्यवर्जितम्। धर्मे तु तीर्थं दिनकृन्नवाब्दे चन्द्रो नखे

१० वातमसृक्च शक्रे

१४ । मातुर्मृतिर्ज्ञोऽङ्गयुगे

२६ कविर्मां तिथ्यव्दके

१५ तातमृतिं गुरुश्च”। वर्षलग्नात् धर्मभावफलं नी॰ ता॰ उक्तं यथा
“भौमेऽव दपे त्रिनवगे क्रूरायुक्ते बलान्विते। गुणावह-स्तदा मार्गश्चिरं कार्य्यं स्थिरं तनु। त्रिधर्मस्थोऽव्दपःसूर्य्यः कन्दलीमार्गसौख्यदः। अन्यप्रेषणयानं स्यात्सं चेन्नाधिकृतो भवेत्। शुक्रेऽव्पे त्रिनवगे मार्गसौख्यंविलोमगे। अस्ते वा कुगतिः सौम्ये देवयात्रा तथा-विधे। क्रूरार्दिते कुयानं स्यात् गुरावेवं विचिन्तयेत्। इत्थशाले लग्नधर्मपत्योर्यात्राऽस्त्यचिन्तिता। लग्नेशोधर्मपे यच्छन् स्वं महश्चिन्तिताध्वगः। एवं लग्ना-वदयोर्योगे मुथहाङ्गपयोरपि। गुरुस्थाने कुजे धर्मेसद्यात्रा भृत्यवित्तदा। ज्ञस्थाने लग्नपो भौभो दृष्टःसद्यानसौख्यदः। स्वस्थानगो हि बलवान् लग्नदर्शी सुया-नदः। जन्माधिकारी ज्ञो मन्दस्थाने क्रूरयुतो यदा। पन्था रिपोः स्वकटकाद्गुरुशुक्रेन्दुजीवयोः। धर्मेशनिर्नाधिकारी पन्थानमशुभं वदेत्। इत्थं गुरौदूरयात्रा नृपसङ्गस्ततो गुणः। कुजेऽव्दपे नष्टवलेस्वजनाद्दूरतो गतिः। द्यूनेन्थिशा धर्म इन्द्रौ सबलेऽध्वाविदेशजः। वर्षेशो बलवान् पापायुतः केन्द्रेऽधिकार-वान्। अधिकारे गतिः सङ्ख्ये मेनापत्येऽपि वा वदेत्। एवंविधे कुजे जीवे युतेऽर्कान्निर्गते पुनः। परसैन्यो-परिगतिजयख्यातिसुखावहा। जीवान्नवमगे भौमेशुभां यात्रां नृणां वदेत्”।

१८ आधेये स्ववृत्तिपदार्थे
“धर्मादनिच् केवलात्” पा॰ बहु॰ अनिच्। विधर्मा सुधर्माकेवलादित्युक्तेः परमः स्वीघर्मो यस्येति बहुब्रीहौ न। सन्दिग्धसाध्यघर्मा इत्यादौ तु कर्मधारयपूर्वपदो बहु-व्रीहिः समानविभक्तिकपदपूर्वकेतरत्वस्यैव केवलशब्दार्थ-त्वात् निवृत्तिधर्मा अनुच्छित्तिधर्मा इत्यादौ अनिच्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्म¦ mn. (-र्म्मः-र्म्मं)
1. Virtue, moral and religious merit, according to the law and the Ve4das.
2. Usage, practice, the customary observances of caste, sect, &c.
3. Duty, especially that enjoined by the Ve4das.
4. Fitness, propriety.
5. Nature, character, proper or natural state or disposition,
6. Innocence, innoxiousness.
7. Resemblance.
8. Any sacrifice.
9. An Upanishad or theological portion of a Ve4da.
10. Any peculiar or prescribed practice or duty; thus, giving alms, &c. is the d'harma of a householder; administering justice, the d'harma of a king; piety, that of a Bra4hman; courage, that of a Kshetriya, &c.
11. Kind and virtuous speech or discourse.
12. Law. m. (-र्म्मः)
1. A name of YAMA, ruler of the lower regions, and judge of the dead.
2. A drinker of the juice of the acid asclepias, at certain sacrifices.
3. Virtue personified, born from the right breast of BRAMHA
4.
4. A bow.
5. Associating with the virtuous.
6. The fifteenth of the twenty-four jaina pontiffs of the present age.
7. A pious or virtuous man.
8. The bull of SIVA, a personification or type or virtue. E. धृ to maintain or support, &c. Una4di affix मन्, what supports all men. ध्रियते लोकोऽनेन, धरति लोकं वा |

"https://sa.wiktionary.org/w/index.php?title=धर्म्म&oldid=328871" इत्यस्माद् प्रतिप्राप्तम्