धर्म्मघट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धर्म्मघटः, पुं, (धर्म्माय घटः सुगङ्गोदकपरिपूर्ण- कलसः ।) सौरवैशाखे प्रत्यहदातव्यसुगन्धोदक- पूरितकलसः । यथा, काशीखण्डे १२ अध्याये । “दद्युर्धर्म्मघटांश्चापि सुगन्धोदकपूरितान् ॥” तद्विधिर्यथा । अथ धर्म्मघटव्रतम् । तत्र प्रथमं स्वस्तिवाचनं कृत्वा सूर्य्यः सोम इति पठित्वा सङ्कल्पं कुर्य्यात । यथा, -- यम उवाच । व्रतं धर्म्मघटं देवि ! कुरु गत्वा निजालयम् । नागन्तव्यं त्वया देवि ! पुनर्म्मम पुरीं शुभे ! ॥ ततो गता च सा चैव तुष्टोऽभूदन्तकस्तदा । भूयो भूमिगृहं प्राप्य तदेव च तथा सती ॥ सा तत्र तद्व्रतञ्चक्रे दानं होमं यथाविधि । संपूर्णे तु व्रते तत्र प्रतिष्ठामाचरत् सती ॥ ददौ द्वादशविप्रेभ्यो दानानि द्वादशानि च । चत्वारि जलपात्राणि वस्त्रेण सहितानि च ॥ दानानि च ततो दत्त्वा तत्सङ्ख्यकघटास्तथा । आसनानि च चत्वारि पादुकासहितानि च ॥ दक्षिणान्तु ततो दत्त्वा वस्त्राणि विविधानि च । तद्व्रतञ्च सुसम्पन्नं विष्णुहस्तेऽन्यसत्ततः ॥ एवं कृत्वा व्रतं साध्वी द्रौपदी सुसमाहिता । अन्तकालं समासाद्य सा गता वैष्णवं पुरम् ॥ इत्युक्ता लोमशेनाथ कन्या मालावती तथा । कृत्वा चैव व्रतं साध्वी देवाराधनपूर्ब्बकम् ॥ सा नित्यं गर्गरीं दत्त्वा सभोज्यदक्षिणान्विताम् । देवोद्देशेन विप्राय श्रद्धया प्रत्यपादयत् ॥ एवं या कुरुते नारी पुत्त्रपौत्त्रसमन्विता ॥ पुस्तकान्तरे । ‘एवं करोति या नारी नरो वा व्रतमुत्तमम् ।’ इति वा पाठः । आयुरारोग्यमैश्वर्य्यं श्रियञ्च लभते सुखम् । अन्ते याति परं स्थानं यत्र देवो निरञ्जनः ॥” इति भविष्यपुराणोक्ता धर्म्मघटव्रतकथा समाप्ता ॥ क्वचित् क्वचित् पद्धतौ विष्णुधर्म्मोत्तरयमपुरा- णोक्ता च लिखिता ॥
