सामग्री पर जाएँ

धर्म्मपुत्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्मपुत्त्रः, पुं, (धर्म्मस्य पुत्त्रः ।) युधिष्ठिरराजः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ३ । २३५ । १८ । “न पापकं धास्यति धर्म्मपुत्त्रो धनञ्जयश्चाप्यनुवर्त्स्यते तम् ॥”) नरनारायणावृषी । इति पुराणम् ॥ (यथा, देवीभागवते । ४ । ७ । १९ । “तापसौ धर्म्मपुत्त्रौ द्बौ सुशान्तमनसावुभौ ॥”) धर्म्मतः कृतपुत्त्रः । धरम्वेटा इति भाषा ॥ यथा, -- “यावद्धुर्जटिधर्म्मपुत्त्रपरशुक्षुणाखिलक्षत्त्रिय- श्रेणोशोणितपिच्छिला वसुमती कोऽस्यामधा- स्यत् पदम् । त्रैलोक्याभयदानदक्षिणभुजावष्टम्भदिव्योदयो देवोऽयं दिनकृत्कुलैकतिलको न प्राभविष्यद् यदि ॥” इति महानाटके । २ । २५ ॥

"https://sa.wiktionary.org/w/index.php?title=धर्म्मपुत्त्र&oldid=142408" इत्यस्माद् प्रतिप्राप्तम्