सामग्री पर जाएँ

धर्म्ममूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्ममूलम्, क्ली, (धर्म्मस्य मूलम् ।) शुभादृष्टकार- णम् । पुण्यहेतुः । यथा, -- “इत्थं मूलं फलं शाकमुदपात्रं तपोधनाः । दानं विभवतो दत्त्वा नराः स्वर्य्यान्ति धर्म्मिणः ॥ एष धर्म्मो महांस्त्यागो दानं भूतदया तथा । ब्रह्मचर्य्यं सदा सत्यं अनुक्रोशो धृतिः क्षमा ॥ सनातनस्य धर्म्मस्य मूलमेतत् समासतः ॥” इति वह्निपुराणे स्नानविधिनामाध्यायः ॥ (यथा च मनुः । २ । ६ । “वेदोऽखिलो धर्म्ममूलं स्मृतिशीले च तद्बिदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

धर्म्ममूल¦ न॰ त

६० । धर्मस्य प्रमाणे, तानि च मन्वादिभि-र्दर्शितानि। तत्र मनुः
“वेदोऽखिली धर्ममूलं स्मृतिशीले च तद्विदाम्। आचारश्चैव साधूनामात्मनस्तुष्टिरेव च”। विधिर्बिधेयस्तर्कश्च वेदाङ्गानि षडेव चेति” विधिरज्ञातज्ञापकोवेदभागः विधेयोमन्त्रः तर्कोमीमांसा। अङ्गान्याहदेवलः
“शिक्षाव्याकरणनिरुक्तच्छन्दःकल्पज्योतीषीतिवेदाङ्गानि”
“शुचो तु चरिते शीलनित्यायारणैन[Page3860-a+ 38] शीलत्वाभिधानात् क्वथं पृथगुपादनम्। न आचर्य्यानु-ष्ठनिलक्षणक्रियारूपत्वादाचारस्य स्वरूपविशेषत्वाच्छी-लस्य व्यक्त एव भेदः।
“शुचौ तु चरिते शीलमिति” शीलस्य चरितविशेषहेतुत्वादुपचारेण चरितत्वाभि-धानम्। अथ शीलं कस्य धर्मतां प्रमापयति। आत्मनएव पुरुषविशेषस्वभावोऽन्यथानुपपद्यमानः स्वस्य श्रेयःसाधनतां बाधयति। तथा च ब्राह्मण्यतेत्यादिहारीत-वचने भावप्रत्ययान्ततयाभिधानं शीलस्य क्रियाव्यति-रोकतां बोधयत् स्वभावतामेव ज्ञापयति यदाह हा-रीतः
“ब्राह्मण्यता

१ देवपितृभक्तता

२ सौम्यता

३ अपरोपतापिता

४ अनश्लीलता

५ मृदुता

६ अपारुष्यं

७ मित्रता

८ प्रियवादित्वम्

९ कारुण्यं

१० कृतज्ञता

११ शरण्यता

१२ प्र-शान्ति

१३ श्चेति त्रयोदशविधं शीलम्”। आचारो विवाहादौकङ्कणबन्धनाद्यनुष्ठानम्। आत्मतुष्टिरत्र धर्मसन्देहे वै-दिकसंस्कारवासितान्तःकरणानां साधूनामेकत्र पक्षे मनःपरितोषः। याज्ञवल्क्यः
“श्रुतिः स्मृतिः सदाचारः स्वस्यच प्रियमात्मनः। सम्यक् सङ्कल्पजः कामो धर्ममूलमिदंस्मृतम्। पुराणन्यायमीमांसा धर्मशस्त्राङ्गमित्रिताः। वेदाः स्थानानि विद्यानाम् धर्मस्य च चतुर्दश”।

"https://sa.wiktionary.org/w/index.php?title=धर्म्ममूल&oldid=329042" इत्यस्माद् प्रतिप्राप्तम्