धर्म्मयुज्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धर्म्मयुक्, [ज्] त्रि, (धर्म्मं युनक्तीति । युज् + क्विप् ।) धर्म्मयुक्तः । धार्म्मिकः । (यथाह देवलः । “दाता प्रतिगृहीता च श्रद्धादेयञ्च धर्म्मयुक् । देशकालौ च दानानामङ्गान्येतानि षड्विदुः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धर्म्मयुज्¦ त्रि॰ धर्मेण युज्यते युज--कर्मणि क्विप्।
१ धर्मयुक्ते
२ न्यायार्जितद्रव्ये न॰।
“दाता प्रतिग्रहीता च श्रद्धादेयञ्च धर्मयुक्। देशकालौ च दानानामङ्गान्येतानिषड्विदुः” देवलः।
“धर्मयुक् न्यायार्जितद्रव्यम्” शुद्धित॰ रघु॰तथाच विष्णुध॰
“देश काले तथा पात्रे धनं न्यायागतंतथा। यद्दत्तं ब्राह्मणश्रेष्ठास्त्वनन्तं तत् प्रकीर्त्तितम्”
