धर्म्मराज
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धर्म्मराजः, पुं, (धर्म्मेण राजते इति । राज + अच् ।) जिनः । (धर्म्मश्चासौ राजा चेति । समासे टच् ।) यमः । इत्यमरः । ३ । ३ । ३१ ॥ (यथा, महाभारते । ३ । २९६ । ५४ । “धर्म्मराजः प्रहृष्टात्मा स्रावित्रीमिदमब्रवीत् ॥”) नरपतिः । युधिष्ठिरः । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । १६ । ८ । “अपृच्छत् धर्म्मराजो हि शरतल्पगतं पुरा ॥” धर्म्मप्रधाने, त्रि । यथा, महाभारते । १ । ५५ । ११ । “धृत्या च ते प्रीतमनाः सदाहं त्वं वा वरुणो धर्म्म राजो यमो वा ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
धर्म्मराज¦ पु॰ धर्मेण राजते राज--अच्
३ त॰। धर्माणांराजा ईश्वरो वा टच्समा॰।
१ जिने
२ यमे च अमरः।
३ नृपे
४ युधिष्ठिर च शब्दरत्ना॰। तत्र जिनस्य अहिंसा-रूपपरमधर्मेण राजनात् तथात्वं यमस्य च तथात्वमुक्तम्भा॰ व॰
२९
६ अ॰।
“विवस्वतस्त्वं तनयः प्रतापवां-स्ततो हि वैवस्वत उच्यते बुधैः। समेन धर्मेण चरन्तिता॰ प्रजास्ततस्तबेहेश्वर धर्मराजता”
“तथेत्युक्त्वा तुत पाशं मुक्त्वा वैवस्वतो यमः। धर्मराजः प्रहृष्टात्मासावित्रीमिदमव्रवीत्” नृपाणां तथात्वञ्च
“इन्द्रानलयमा-र्काणामग्नेश्च वरुणस्य च। चन्द्रवित्तेशयोश्चैव मात्रासिहत्य शाश्वतीः। यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितानृपाः मनुना यममात्रातोनिर्माणस्योक्तेः धर्मराजवद्अधर्मरतानां नराणां नियमनाद्वा तथात्वम् बोध्यम्। युधिष्ठिरस्य धर्मप्रधानत्वात् तथात्वम्।
“सहायमध्वरघुरां धर्मराजो विवक्षते” माघः समासान्तविधेरनित्य-त्वात् क्वचिदार्षे न टच्समा॰।
“जयाशीर्मिश्च तं विप्रोधर्मराजानमार्चयत” भा॰ स॰
५ अ॰।
